इक्ष्वाकुवंशकीर्तनम्
अयोध्याकाण्डः / इक्ष्वाकुवंशकीर्तनम्
Script
Translation
Previous
सत्यप्रशंसा
Next
भरतानुशासनम्
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे इक्ष्वाकुवंशकीर्तनम् नाम दशाधिकशततमः सर्गः ॥२-११०॥
क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह ।
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥२-११०-१॥
निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ।
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥२-११०-२॥
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता ।
ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह ।
स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥२-११०-३॥
असृजच्च जगत् सर्वं सह पुत्रैः कृतात्मभिः ।
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥२-११०-४॥
तस्मान्मरीचिः संजज्ञे मरीचेः काश्यपः सुतः ॥२-११०-५॥
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः ।
स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥२-११०-६॥
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥२-११०-७॥
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः ।
कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥२-११०-८॥
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।
बाणस्य तु महाबाहुरनरण्यो महायशाः ॥२-११०-९॥
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे ।
अनरण्ये महाराजे तस्करो नापि कश्चन ॥२-११०-१०॥
अनरण्यान्महाबाहुः पृथू राजा बभूव ह ।
तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत ।
स सत्यवचनाद्वीरः सशरीरो दिवङ्गतः ॥२-११०-११॥
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः ।
धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥२-११०-१२॥
युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत ।
मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ॥२-११०-१३॥
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ।
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ॥२-११०-१४॥
भरतात्तु महाबाहोरसितो नाम जायत ।
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।
हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥२-११०-१५॥
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः ।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥२-११०-१६॥
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ।
एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥२-११०-१७॥
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।
तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥२-११०-१८॥
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।
पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ।
धार्मिकश्च सुशीलश्च वंशकर्त्ताऽरिसूदनः ॥२-११०-१९॥
कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च ।
पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।
ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥२-११०-२०॥
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
गरेण सह तेनैव जातः स सगरोऽभवत् ॥२-११०-२१॥
स राजा सगरो नाम यः समुद्रमखानयत् ।
इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥२-११०-२२॥
असमञ्जस्तु पुत्रोभूत् सगरस्येति नः श्रुतम् ।
जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥२-११०-२३॥
अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्य्यवान् ।
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥२-११०-२४॥
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः ।
ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन तु राघवाः ॥२-११०-२५॥
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।
कल्माषपादः सौदास इत्येवं प्रथितो भुवि ॥२-११०-२६॥
कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः ।
यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥२-११०-२७॥
शङ्खणस्य च पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः ।
सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ॥२-११०-२८॥
शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः ।
प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः ॥२-११०-२९॥
अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः ।
नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥२-११०-३०॥
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।
अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥२-११०-३१॥
तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः ।
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥२-११०-३२॥
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥२-११०-३३॥
स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि ।
प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशः ॥२-११०-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे इक्ष्वाकुवंशकीर्तनम् नाम दशाधिकशततमः सर्गः ॥२-११०॥
Previous
सत्यप्रशंसा
Next
भरतानुशासनम्