सत्यप्रशंसा
अयोध्याकाण्डः / सत्यप्रशंसा
Script
Translation
Previous
जाबालिवाक्यम्
Next
इक्ष्वाकुवंशकीर्तनम्
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे सत्यप्रशंसा नाम नवाधिकशततमः सर्गः ॥२-१०९॥
जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः ।
उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥२-१०९-१॥
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।
अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥२-१०९-२॥
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।
मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥२-१०९-३॥
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।
चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम् ॥२-१०९-४॥
अनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः ।
लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥२-१०९-५॥
अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥२-१०९-६॥
कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।
बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥२-१०९-७॥
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।
अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥२-१०९-८॥
कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्त्तते ।
यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥२-१०९-९॥
सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।
तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥२-१०९-१०॥
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ॥२-१०९-११॥
उद्विजन्ते यथा सर्प्पान्नरादनृतवादिनः ।
धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥२-१०९-१२॥
सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥२-१०९-१३॥
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।
वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥२-१०९-१४॥
एकः पालयते लोकमेकः पालयते कुलम् ।
मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥२-१०९-१५॥
सोऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।
सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥२-१०९-१६॥
नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वितः ।
सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥२-१०९-१७॥
असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः ।
नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥२-१०९-१८॥
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।
भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥२-१०९-१९॥
क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।
क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥२-१०९-२०॥
कायेन कुरुते पापं मनसा सम्प्रधार्य च ।
अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥२-१०९-२१॥
भूमिः कीर्त्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।
स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥२-१०९-२२॥
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।
आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥२-१०९-२३॥
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।
भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥२-१०९-२४॥
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।
प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥२-१०९-२५॥
वनवासं वसन्नेवं शुचिर्नियतभोजनः ।
मूलैः पुष्पैः फलैः पुण्यैः पितऽन् देवांश्च तर्पयन् ॥२-१०९-२६॥
सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्त्तये ।
अकुहः श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षणः ॥२-१०९-२७॥
कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।
अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥२-१०९-२८॥
शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः ।
तपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥२-१०९-२९॥
अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।
अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥२-१०९-३०॥
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।
द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः ॥२-१०९-३१॥
तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः ।
धर्मं चरन्तः सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ताः ॥२-१०९-३२॥
निन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।
बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥२-१०९-३३॥
यथा हि चोरः स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।
तस्माद्धि यः शङ्क्यतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥२-१०९-३४॥
त्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रुः ।
जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजाः स्वस्ति हुतं कृतं च ॥२-१०९-३५॥
धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ।
अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥२-१०९-३६॥
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।
उवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ॥२-१०९-३७॥
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन ।
समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः ॥२-१०९-३८॥
स चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता ।
निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥२-१०९-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सत्यप्रशंसा नाम नवाधिकशततमः सर्गः ॥२-१०९॥
Previous
जाबालिवाक्यम्
Next
इक्ष्वाकुवंशकीर्तनम्