जाबालिवाक्यम्
अयोध्याकाण्डः / जाबालिवाक्यम्
Script
Translation
Previous
रामप्रतिवचनम्
Next
सत्यप्रशंसा
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे जाबालिवाक्यम् नाम अष्टाधिकशततमः सर्गः ॥२-१०८॥
आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ।
उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥२-१०८-१॥
साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका ।
प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥२-१०८-२॥
कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
यदेको जायते जन्तुरेक एव विनश्यति ॥२-१०८-३॥
तस्मान्माता पिता चेति राम सज्जेतयो नरः ।
उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥२-१०८-४॥
यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद्वसेत् ।
उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥२-१०८-५॥
एवमेव मनुष्याणां पिता माता गृहं वसु ।
आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥२-१०८-६॥
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।
आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥२-१०८-७॥
समृद्धायामयोध्यायामात्मानमभिषेचय ।
एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥२-१०८-८॥
राजभोगाननुभवन् महार्हान् पार्थिवात्मज ।
विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥२-१०८-९॥
न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।
अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ॥२-१०८-१०॥
बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव च ।
संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥२-१०८-११॥
गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।
प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥२-१०८-१२॥
अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् ।
ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥२-१०८-१३॥
अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ।
अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥२-१०८-१४॥
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।
दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥२-१०८-१५॥
दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।
यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥२-१०८-१६॥
स नास्ति परमित्येव कुरु बुद्धिं महामते ।
प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥२-१०८-१७॥
स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥२-१०८-१८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे जाबालिवाक्यम् नाम अष्टाधिकशततमः सर्गः ॥२-१०८॥
Previous
रामप्रतिवचनम्
Next
सत्यप्रशंसा