रामप्रतिवचनम्

अयोध्याकाण्डः / रामप्रतिवचनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे रामप्रतिवचनम् नाम सप्ताधिकशततमः सर्गः ॥२-१०७॥
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः । प्रत्युवाच ततः श्रीमान् ज्ञातिमध्येऽभिसत्कृतः ॥२-१०७-१॥
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः । जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥२-१०७-२॥
पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥२-१०७-३॥
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः । सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥२-१०७-४॥
ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी । अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥२-१०७-५॥
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा । तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥२-१०७-६॥
तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ । चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥२-१०७-७॥
सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः । सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥२-१०७-८॥
भवानपि तथेत्येव पितरं सत्यवादिनम् । कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥२-१०७-९॥
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् । पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥२-१०७-१०॥
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना । गयेन यजमानेन गयेष्वेव पितऽन् प्रति ॥२-१०७-११॥
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः पितऽन् यत्पाति वा सुतः ॥२-१०७-१२॥
एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः । तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥२-१०७-१३॥
एवं राजर्षयः सर्वे प्रतीता राजनन्दन । तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥२-१०७-१४॥
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय । शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः ॥२-१०७-१५॥
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् । आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥२-१०७-१६॥
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् । गच्छत्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥२-१०७-१७॥
छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥२-१०७-१८॥
शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् । चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥२-१०७-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे रामप्रतिवचनम् नाम सप्ताधिकशततमः सर्गः ॥२-१०७॥