भरतवचनम्
अयोध्याकाण्डः / भरतवचनम्
Script
Translation
Previous
रामवाक्यम्
Next
रामप्रतिवचनम्
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे भरतवचनम् नाम षडधिकशततमः सर्गः ॥२-१०६॥
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।
उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥२-१०६-१॥
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।
न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥२-१०६-२॥
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥२-१०६-३॥
यथा मृतस्तथा जीवन् यथाऽसति तथा सति ।
यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ॥२-१०६-४॥
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।
स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥२-१०६-५॥
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः ।
सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥२-१०६-६॥
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।
अविषह्यतमं दुःखमासादयितुमर्हति ॥२-१०६-७॥
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥२-१०६-८॥
धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् ।
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥२-१०६-९॥
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ।
जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥२-१०६-१०॥
गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च ।
तातं न परिगर्हेयं दैवतं चेति संसदि ॥२-१०६-११॥
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।
स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ॥२-१०६-१२॥
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥२-१०६-१३॥
साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् ।
तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥२-१०६-१४॥
पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥२-१०६-१५॥
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः ।
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥२-१०६-१६॥
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ।
पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥२-१०६-१७॥
क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् ।
ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥२-१०६-१८॥
एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् ।
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥२-१०६-१९॥
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।
आयतिस्थं चरेद्धर्मं क्षत्रबन्धुरनिश्चितम् ॥२-१०६-२०॥
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।
धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥२-१०६-२१॥
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।
प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥२-१०६-२२॥
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।
स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥२-१०६-२३॥
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।
भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥२-१०६-२४॥
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥२-१०६-२५॥
इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह ।
ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥२-१०६-२६॥
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।
विजित्य तरसा लोकान् मरुद्भिरिव वासवः ॥२-१०६-२७॥
ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्द्दहन् ।
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥२-१०६-२८॥
अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने ।
अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश ॥२-१०६-२९॥
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥२-१०६-३०॥
शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि ।
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥२-१०६-३१॥
अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः ।
गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥२-१०६-३२॥
तथाहि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः ।
न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थितः ॥२-१०६-३३॥
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः ।
न यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥२-१०६-३४॥
तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातरः ।
तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ॥२-१०६-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे भरतवचनम् नाम षडधिकशततमः सर्गः ॥२-१०६॥
Previous
रामवाक्यम्
Next
रामप्रतिवचनम्