रामवाक्यम्

अयोध्याकाण्डः / रामवाक्यम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे रामवाक्यम् नाम पञ्चाधिकशततमः सर्गः ॥२-१०५॥
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः । शोचतामेव रजनी दुःखेन व्यत्यवर्त्तत ॥२-१०५-१॥
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः । मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥२-१०५-२॥
तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् । भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥२-१०५-३॥
सान्त्विता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥२-१०५-४॥
महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे । दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥२-१०५-५॥
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः । अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥२-१०५-६॥
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते । राम तेन तु दुर्जीवं यः परानुपजीवति ॥२-१०५-७॥
यथा तु रोपितो वृक्षः पुरुषेण विवर्द्धितः । ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥२-१०५-८॥
स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् । स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ॥२-१०५-९॥
एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि । यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥२-१०५-१०॥
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः । प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥२-१०५-११॥
तवाऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः । अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥२-१०५-१२॥
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः । भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥२-१०५-१३॥
तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् । रामः कृतात्मा भरतं समाश्वासय दात्मवान् ॥२-१०५-१४॥
नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः । इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥२-१०५-१५॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥२-१०५-१६॥
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥२-१०५-१७॥
यथागारं दृढस्थूणं जीर्णं भूत्वाऽवसीदति । तथैव सीदन्ति नरा जरामृत्युवशङ्गताः ॥२-१०५-१८॥
अत्येति रजनी या तु सा न प्रतिनिवर्त्तते । यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥२-१०५-१९॥
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥२-१०५-२०॥
आत्मानमनुशोच त्वं किमन्यमनुशोचसि । आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥२-१०५-२१॥
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति । गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥२-१०५-२२॥
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः । जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥२-१०५-२३॥
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ । आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥२-१०५-२४॥
हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् । ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षयः ॥२-१०५-२५॥
यथा काष्ठं च काष्ठं च समेयातां महार्णवे । समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥२-१०५-२६॥
एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥२-१०५-२७॥
नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते । तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥२-१०५-२८॥
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः । अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥२-१०५-२९॥
एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः । तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥२-१०५-३०॥
वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः । आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥२-१०५-३१॥
धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः । धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥२-१०५-३२॥
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् । अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः ॥२-१०५-३३॥
कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः । स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥२-१०५-३४॥
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् । उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥२-१०५-३५॥
आयुरुत्तममासाद्य भोगानपि च राघवः । स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥२-१०५-३६॥
स जीर्णं मानुषं देहं परित्यज्य पिता हि नः । दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥२-१०५-३७॥
तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति । तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः ॥२-१०५-३८॥
एते बहुविधाः शोका विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥२-१०५-३९॥
स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् । तथा पित्रा नियुक्तोऽसि वशिना वदतां वर ॥२-१०५-४०॥
यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥२-१०५-४१॥
न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥२-१०५-४२॥
तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः । कर्मणा पालयिष्यामि वनवासेन राघव ॥२-१०५-४३॥
धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना । भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥२-१०५-४४॥
आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥२-१०५-४५॥
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् । यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥२-१०५-४६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे रामवाक्यम् नाम पञ्चाधिकशततमः सर्गः ॥२-१०५॥