रामभरतसंवादः

अयोध्याकाण्डः / रामभरतसंवादः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे रामभरतसंवादः नाम चतुरधिकशततमः सर्गः ॥२-१०४॥
तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥२-१०४-१॥
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥२-१०४-२॥
किं निमित्तमिमं देशं कृष्णाजिनजटाधरः । हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥२-१०४-३॥
इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना । प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥२-१०४-४॥
आर्य्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् । गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥२-१०४-५॥
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप । चकार सुमहत्पापमिदमात्मयशोहरम् ॥२-१०४-६॥
सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोरे निरये जननी मम ॥२-१०४-७॥
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि । अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥२-१०४-८॥
इमाः प्रकृतयः सर्वा विधवा मातरश्च याः । त्वत्सकाशमनुप्राप्ताः प्रसादं कर्त्तुमर्हसि ॥२-१०४-९॥
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥२-१०४-१०॥
भवत्वविधवा भूमिः समग्रा पतिना त्वया । शशिना विमलेनेव शारदी रजनी यथा ॥२-१०४-११॥
एभिश्च सचिवैः सार्द्धं शिरसा याचितो मया । भ्रातुः शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥२-१०४-१२॥
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥२-१०४-१३॥
एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः । रामस्य शिरसा पादौ जग्राह विधिवत्पुनः ॥२-१०४-१४॥
तं मत्तमिव मातङ्गं निःश्वसन्तं पुनःपुनः । भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥२-१०४-१५॥
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः । राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥२-१०४-१६॥
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥२-१०४-१७॥
कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥२-१०४-१८॥
वयमस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः । भार्य्याः पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥२-१०४-१९॥
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥२-१०४-२०॥
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥२-१०४-२१॥
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव । मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे ॥२-१०४-२२॥
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥२-१०४-२३॥
एवं कृत्वा महाराजो विभागं लोकसन्निधौ । व्यादिश्य च महातेजा दिवं दशरथो गतः ॥२-१०४-२४॥
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥२-१०४-२५॥
चतुर्दशसमाः सौम्य दण्डकारण्यमाश्रितः । उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥२-१०४-२६॥
यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः । तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥२-१०४-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे रामभरतसंवादः नाम चतुरधिकशततमः सर्गः ॥२-१०४॥