मातृदर्शनम्

अयोध्याकाण्डः / मातृदर्शनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे मातृदर्शनम् नाम त्र्यधिकशततमः सर्गः ॥२-१०३॥
वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं रामदर्शनतर्षितः ॥२-१०३-१॥
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति । ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥२-१०३-२॥
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥२-१०३-३॥
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् । वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृताः ॥२-१०३-४॥
इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः । स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥२-१०३-५॥
जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः । भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणैः ॥२-१०३-६॥
अद्यायमपि ते पुत्रः क्लेशानामतथोचितः । नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥२-१०३-७॥
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥२-१०३-८॥
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा । उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥२-१०३-९॥
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः । राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥२-१०३-१०॥
तस्य देवसमानस्य पार्थिवस्य महात्मनः । नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥२-१०३-११॥
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः । कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥२-१०३-१२॥
अतो दुःखतरं लोके न किञ्चित् प्रतिभाति मा । यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥२-१०३-१३॥
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे । कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥२-१०३-१४॥
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥२-१०३-१५॥
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा । ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥२-१०३-१६॥
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः । आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥२-१०३-१७॥
तासां रामः समुत्थाय जग्राह चरणान् शुभान् । मातऽणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः ॥२-१०३-१८॥
ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः । प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥२-१०३-१९॥
सौमित्रिरपि ताः सर्वाः मातऽः सम्प्रेक्ष्य दुःखितः । अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥२-१०३-२०॥
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः । वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥२-१०३-२१॥
सीतापि चरणांस्तासामुपसंगृह्य दुःखिता । श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥२-१०३-२२॥
तां परिष्वज्य दुःखार्त्तां माता दुहितरं यथा । वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥२-१०३-२३॥
विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥२-१०३-२४॥
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥२-१०३-२५॥
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥२-१०३-२६॥
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रजः । पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥२-१०३-२७॥
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः । प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥२-१०३-२८॥
ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः । जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥२-१०३-२९॥
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥२-१०३-३०॥
किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥२-१०३-३१॥
स राघवः सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिकः । वृताः सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयोऽग्नयः ॥२-१०३-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे मातृदर्शनम् नाम त्र्यधिकशततमः सर्गः ॥२-१०३॥