निवापदानम्
अयोध्याकाण्डः / निवापदानम्
Script
Translation
Previous
पितृदिष्टान्तश्रवणम्
Next
मातृदर्शनम्
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे निवापदानम् नाम द्व्यधिकशततमः सर्गः ॥२-१०२॥
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।
राघवो भरतेनोक्तां बभूव गतचेतनः ॥२-१०२-१॥
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।
वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः ॥२-१०२-२॥
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः ।
वने परशुना कृत्तस्तथा भुवि पपात ह ॥२-१०२-३॥
तथा निपतितं रामं जगत्यां जगतीपतिम् ।
कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥२-१०२-४॥
भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् ।
रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥२-१०२-५॥
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।
उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम् ॥२-१०२-६॥
स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।
उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥२-१०२-७॥
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।
कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥२-१०२-८॥
किं नु तस्य मया कार्य्यं दुर्जातेन महात्मनः ।
यो मृतो मम शोकेन मया चापि न संस्कृतः ॥२-१०२-९॥
अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ ।
शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥२-१०२-१०॥
निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।
निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥२-१०२-११॥
समाप्तवनवासं मामयोध्यायां परन्तप ।
को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥२-१०२-१२॥
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।
वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥२-१०२-१३॥
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः ।
उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥२-१०२-१४॥
सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण ।
भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥२-१०२-१५॥
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।
तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥२-१०२-१६॥
ततस्ते भ्रातरः सर्वे भृशमाश्वास्य राघवम् ।
अब्रुवन् जगतीभर्त्तुः क्रियतामुदकं पितुः ॥२-१०२-१७॥
सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।
नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥२-१०२-१८॥
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥२-१०२-१९॥
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥२-१०२-२०॥
सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥२-१०२-२१॥
ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।
मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥२-१०२-२२॥
सुमन्त्रस्तैर्नृपसुतैः सार्द्धमाश्वास्य राघवम् ।
अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥२-१०२-२३॥
ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥२-१०२-२४॥
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् ।
सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥२-१०२-२५॥
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।
दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥२-१०२-२६॥
एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।
पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥२-१०२-२७॥
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघवः ।
पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ॥२-१०२-२८॥
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।
न्यस्य रामः सुदुःखार्त्तो रुदन् वचनमब्रवीत् ॥२-१०२-२९॥
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥२-१०२-३०॥
ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् ।
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥२-१०२-३१॥
ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।
परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥२-१०२-३२॥
तेषां तु रुदतां शब्दात् प्रतिश्रुत्कोऽभवद्गिरौ ।
भ्रातऽणां सह वैदेह्याः सिंहानामिव नर्दताम् ॥२-१०२-३३॥
महाबलानां रुदतां कुर्वतामुदकं पितुः ।
विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ॥२-१०२-३४॥
अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम् ।
तेषामेव महाञ्छब्दः शोचतां पितरं मृतम् ॥२-१०२-३५॥
अथ वासान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम् ।
अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ॥२-१०२-३६॥
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः ।
सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥२-१०२-३७॥
अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।
द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ॥२-१०२-३८॥
भ्रातऽणां त्वरितास्तत्र द्रष्टुकामाः समागमम् ।
ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः ॥२-१०२-३९॥
सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता ।
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥२-१०२-४०॥
तेन वित्रासिता नागाः करेणुपरिवारिताः ।
आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥२-१०२-४१॥
वराहवृकसङ्घाश्च महिषाः सर्प्पवानराः ।
व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह ॥२-१०२-४२॥
रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्लवाः ।
तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥२-१०२-४३॥
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।
मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥२-१०२-४४॥
ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।
आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥२-१०२-४५॥
विगर्हमाणः कैकेयीं सहितो मन्थरामपि ।
अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत् ॥२-१०२-४६॥
तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् ।
पर्य्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥२-१०२-४७॥
स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।
चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मजः ॥२-१०२-४८॥
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वनः ।
गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे ॥२-१०२-४९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे निवापदानम् नाम द्व्यधिकशततमः सर्गः ॥२-१०२॥
Previous
पितृदिष्टान्तश्रवणम्
Next
मातृदर्शनम्