पितृदिष्टान्तश्रवणम्

अयोध्याकाण्डः / पितृदिष्टान्तश्रवणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे पितृदिष्टान्तश्रवणम् नाम एकाधिकशततमः सर्गः ॥२-१०१॥
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥२-१०१-१॥
शाश्वतोऽयं सदा धर्म्मः स्थितोऽस्मासु नरर्षभ । ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥२-१०१-२॥
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥२-१०१-३॥
राजानं मानुषं प्राहुर्देवत्वे स मतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥२-१०१-४॥
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यो गतो राजा यायजूकः सतां मतः ॥२-१०१-५॥
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥२-१०१-६॥
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः । अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥२-१०१-७॥
प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥२-१०१-८॥
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमितः पिता ते ॥२-१०१-९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पितृदिष्टान्तश्रवणम् नाम एकाधिकशततमः सर्गः ॥२-१०१॥