त्रिशंकुस्वर्गः

बालकाण्डः / त्रिशंकुस्वर्गः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे त्रिशंकुस्वर्गः नाम षष्ठितमः सर्गः ॥१-६०॥
तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान् । ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥१-६०-१॥
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः । धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥१-६०-२॥
स्वेनानेन शरीरेण देवलोकजिगीषया । यथायं स्वशरीरेण देवलोकं गमिष्यति ॥१-६०-३॥
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह । विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ॥१-६०-४॥
ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम् । अयं कुशिकदायादो मुनिः परमकोपनः ॥१-६०-५॥
यदाह वचनं सम्यगेतत् कार्यं न संशयः । अग्निकल्पो हि भगवान् शापं दास्यति रोषतः ॥१-६०-६॥
तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि । गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥१-६०-७॥
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत । एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा ॥१-६०-८॥
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ । ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ॥१-६०-९॥
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि । ततः कालेन महता विश्वामित्रो महातपाः ॥१-६०-१०॥
चकारावाहनं तत्र भागार्थं सर्वदेवताः । नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः ॥१-६०-११॥
ततः कोपसमाविष्टो विश्वामित्रो महामुनिः । स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ॥१-६०-१२॥
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर । एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ॥१-६०-१३॥
दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर । स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ॥१-६०-१४॥
राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज । उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ॥१-६०-१५॥
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा । स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ॥१-६०-१६॥
सह सर्वैः सुरगणैरिदं वचनमब्रवीत् । त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ॥१-६०-१७॥
गुरुशापहतो मूढ पत भूमिमवाक्शिराः । एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः ॥१-६०-१८॥
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् । तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥१-६०-१९॥
रोषमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् । ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ॥१-६०-२०॥
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः । नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः ॥१-६०-२१॥
दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः । सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥१-६०-२२॥
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः । दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥१-६०-२३॥
ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः । विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥१-६०-२४॥
अयं राजा महाभाग गुरुशापपरिक्षतः । सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥१-६०-२५॥
तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः । अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः ॥१-६०-२६॥
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः । आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे ॥१-६०-२७॥
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः । नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥१-६०-२८॥
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः । यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥१-६०-२९॥
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम् । एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ॥१-६०-३०॥
गगने तान्यनेकानि वैश्वानरपथाद् बहिः । नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ॥१-६०-३१॥
अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः । अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ॥१-६०-३२॥
कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा । विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ॥१-६०-३३॥
ऋषिमध्ये महातेजा बाढमित्येव देवताः । ततो देवा महात्मानो ऋषयश्च तपोधनाः । जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥१-६०-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिशंकुस्वर्गः नाम षष्ठितमः सर्गः ॥१-६०॥