शुनःशेपविक्रयः
बालकाण्डः / शुनःशेपविक्रयः
Script
Translation
Previous
त्रिशंकुस्वर्गः
Next
अम्बरीशयज्ञः
अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे शुनःशेपविक्रयः नाम एकषष्ठितमः सर्गः ॥१-६१॥
विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन् ।
अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः ॥१-६१-१॥
महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् ।
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥१-६१-२॥
पश्चिमायां विशालायां पुष्करेषु महात्मनः ।
सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम् ॥१-६१-३॥
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥१-६१-४॥
एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान् ।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥१-६१-५॥
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह ।
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥१-६१-६॥
पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात् ।
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥१-६१-७॥
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ ।
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥१-६१-८॥
उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः ।
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥१-६१-९॥
देशाञ्जनपदांस्तांस्तान् नगराणि वनानि च ।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥१-६१-१०॥
स पुत्रसहितं तात सभार्यं रघुनन्दन ।
भृगुतुंगे समासीनमृचीकं संददर्श ह ॥१-६१-११॥
तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।
महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ॥१-६१-१२॥
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः ।
गवां शतसहस्रेण विक्रीणीषे सुतं यदि ॥१-६१-१३॥
पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव ।
सर्वे परिगता देशा यज्ञियं न लभे पशुम् ॥१-६१-१४॥
दातुमर्हसि मूल्येन सुतमेकमितो मम ।
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः ॥१-६१-१५॥
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन ।
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ॥१-६१-१६॥
उवाच नरशार्दूलमम्बरीषमिदं वचः ।
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥१-६१-१७॥
ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो ।
तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव ॥१-६१-१८॥
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।
मातॄणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम् ॥१-६१-१९॥
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च ।
शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥१-६१-२०॥
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् ।
विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम् ॥१-६१-२१॥
अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः ।
हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः ॥१-६१-२२॥
गवां शतसहस्रेण शुनःशेपं नरेश्वरः ।
गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥१-६१-२३॥
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः ।
शुनःशेपं महातेजा जगामाशु महायशाः ॥१-६१-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे शुनःशेपविक्रयः नाम एकषष्ठितमः सर्गः ॥१-६१॥
Previous
त्रिशंकुस्वर्गः
Next
अम्बरीशयज्ञः