वासिष्ठशापः

बालकाण्डः / वासिष्ठशापः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे वासिष्ठशापः नाम एकोनषष्ठितमः सर्गः ॥१-५९॥
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः । अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम् ॥१-५९-१॥
इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम् । शरणं ते प्रदास्यामि मा भैषीर्नृपपुंगव ॥१-५९-२॥
अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः । यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ॥१-५९-३॥
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते । अनेन सह रूपेण सशरीरो गमिष्यसि ॥१-५९-४॥
हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप । यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥१-५९-५॥
एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् । व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात् ॥१-५९-६॥
सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह । सर्वानृषीन् सवासिष्ठानानयध्वं ममाज्ञया ॥१-५९-७॥
सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान् । यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ॥१-५९-८॥
तत् सर्वमखिलेनोक्तं ममाख्येयमनादृतम् । तस्य तद् वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ॥१-५९-९॥
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः । ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ॥१-५९-१०॥
ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम् । श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ॥१-५९-११॥
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् । वासिष्ठं यच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ॥१-५९-१२॥
यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव । क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥१-५९-१३॥
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः । ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम् ॥१-५९-१४॥
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः । एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः ॥१-५९-१५॥
वासिष्ठा मुनिशार्दूल सर्वे सहमहोदयाः । तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः ॥१-५९-१६॥
क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् । यद् दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ॥१-५९-१७॥
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः । अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ॥१-५९-१८॥
सप्तजातिशतान्येव मृतपाः सम्भवन्तु ते । श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ॥१-५९-१९॥
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् । महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ॥१-५९-२०॥
दूषितः सर्वलोकेषु निषादत्वं गमिष्यति । प्राणातिपातनिरतो निरनुक्रोशतां गतः ॥१-५९-२१॥
दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति । एतावदुक्त्वा वचनं विश्वामित्रो महातपाः । विरराम महातेजा ऋषिमध्ये महामुनिः ॥१-५९-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे वासिष्ठशापः नाम एकोनषष्ठितमः सर्गः ॥१-५९॥