ब्रह्मतेजोबलम्

बालकाण्डः / ब्रह्मतेजोबलम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे ब्रह्मतेजोबलम् नाम षट्पञ्चाशः सर्गः ॥१-५६॥
एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः । आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत् ॥१-५६-१॥
ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम् । वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥१-५६-२॥
क्षत्रबन्धो स्थितोऽस्म्येष यद् बलं तद् विदर्शय । नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥१-५६-३॥
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् । पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥१-५६-४॥
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम् । ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥१-५६-५॥
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा । ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥१-५६-६॥
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा । जृम्भणं मादनं चैव संतापनविलापने ॥१-५६-७॥
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् । ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥१-५६-८॥
पिनाकमस्त्रं दयितं शुष्कार्द्रे अशनी तथा । दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥१-५६-९॥
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च । वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥१-५६-१०॥
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा । वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥१-५६-११॥
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् । एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥१-५६-१२॥
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् । तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥१-५६-१३॥
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः । तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ॥१-५६-१४॥
देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः । त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते ॥१-५६-१५॥
तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा । वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥१-५६-१६॥
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः । त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥१-५६-१७॥
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः । मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥१-५६-१८॥
प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः । विधूम इव कालाग्नेर्यमदण्ड इवापरः ॥१-५६-१९॥
ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् । अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा ॥१-५६-२०॥
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महाबलः । अमोघं ते बलं श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥१-५६-२१॥
एवमुक्तो महातेजाः शमं चक्रे महाबलः । विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत् ॥१-५६-२२॥
धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् । एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥१-५६-२३॥
तदेतत् प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः । तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारणम् ॥१-५६-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे ब्रह्मतेजोबलम् नाम षट्पञ्चाशः सर्गः ॥१-५६॥