त्रिशंकुयाजनप्रार्थना
बालकाण्डः / त्रिशंकुयाजनप्रार्थना
Script
Translation
Previous
ब्रह्मतेजोबलम्
Next
त्रिशंकुशापः
अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे त्रिशंकुयाजनप्रार्थना नाम सप्तपञ्चाशः सर्गः ॥१-५७॥
ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः ।
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ॥१-५७-१॥
स दक्षिणां दिशं गत्वा महिष्या सह राघव ।
तताप परमं घोरं विश्वामित्रो महातपाः ॥१-५७-२॥
फलमूलाशनो दान्तश्चचार परमं तपः ।
अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ॥१-५७-३॥
हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः ।
पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ॥१-५७-४॥
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ।
जिता राजर्षिलोकास्ते तपसा कुशिकात्मज ॥१-५७-५॥
अनेन तपसा त्वां हि राजर्षिरिति विद्महे ।
एवमुक्त्वा महातेजा जगाम सह दैवतैः ॥१-५७-६॥
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः ।
विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः ॥१-५७-७॥
दुःखेन महताविष्टः समन्युरिदमब्रवीत् ।
तपश्च सुमहत् तप्तं राजर्षिरिति मां विदुः ॥१-५७-८॥
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपः फलम् ।
एवं निश्चित्य मनसा भूय एव महातपाः ॥१-५७-९॥
तपश्चचार धर्मात्मा काकुत्स्थ परमात्मवान् ।
एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ॥१-५७-१०॥
त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः ।
तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव ॥१-५७-११॥
गच्छेयं स्वशरीरेण देवतानां परां गतिम् ।
वसिष्ठं स समाहूय कथयामास चिन्तितम् ॥१-५७-१२॥
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ।
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ॥१-५७-१३॥
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः ।
वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ॥१-५७-१४॥
त्रिशङ्कुस्तु महातेजाः शतं परमभास्वरम् ।
वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः ॥१-५७-१५॥
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् ।
अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाङ्मुखः ॥१-५७-१६॥
अब्रवीत् स महात्मानः सर्वानेव कृताञ्जलिः ।
शरणं वः प्रपन्नोऽहं शरण्यान् शरणं गतः ॥१-५७-१७॥
प्रत्याख्यातो हि भद्रं वो वसिष्ठेन महात्मना ।
यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ॥१-५७-१८॥
गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये ।
शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् ॥१-५७-१९॥
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः ।
सशरीरो यथाहं वै देवलोकमवाप्नुयाम् ॥१-५७-२०॥
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः ।
गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन ॥१-५७-२१॥
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ।
तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ॥१-५७-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिशंकुयाजनप्रार्थना नाम सप्तपञ्चाशः सर्गः ॥१-५७॥
Previous
ब्रह्मतेजोबलम्
Next
त्रिशंकुशापः