विश्वामित्रधनुर्वेदाधिगमः
बालकाण्डः / विश्वामित्रधनुर्वेदाधिगमः
Script
Translation
Previous
पप्लवादिसृष्टिः
Next
ब्रह्मतेजोबलम्
अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे विश्वामित्रधनुर्वेदाधिगमः नाम पञ्चपञ्चाशः सर्गः ॥१-५५॥
ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।
वसिष्ठश्चोदयामास कामधुक् सृज योगतः ॥१-५५-१॥
तस्या हुंकारतो जाताः काम्बोजा रविसंनिभाः ।
ऊधसश्चाथ सम्भूता बर्बराः शस्त्रपाणयः ॥१-५५-२॥
योनिदेशाच्च यवनाः शकृद्देशाच्छकाः स्मृताः ।
रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः ॥१-५५-३॥
तैस्तन्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।
सपदातिगजं साश्वं सरथं रघुनन्दन ॥१-५५-४॥
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।
विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥१-५५-५॥
अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम् ।
हुंकारेणैव तान् सर्वान् निर्ददाह महानृषिः ॥१-५५-६॥
ते साश्वरथपादाता वसिष्ठेन महात्मना ।
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा ॥१-५५-७॥
दृष्ट्वा विनाशितान् सर्वान् बलं च सुमहायशाः ।
सव्रीडं चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा ॥१-५५-८॥
समुद्र इव निर्वेगो भग्नद्रंष्ट्र इवोरगः ।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥१-५५-९॥
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।
हतसर्वबलोत्साहो निर्वेदं समपद्यत ॥१-५५-१०॥
स पुत्रमेकं राज्याय पालयेति नियुज्य च ।
पृथिवीं क्षत्रधर्मेण वनमेवाभ्यपद्यत ॥१-५५-११॥
स गत्वा हिमवत्पार्श्वे किंनरोरगसेवितम् ।
महादेवप्रसादार्थं तपस्तेपे महातपाः ॥१-५५-१२॥
केनचित् त्वथ कालेन देवेशो वृषभध्वजः ।
दर्शयामास वरदो विश्वामित्रं महामुनिम् ॥१-५५-१३॥
किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् ।
वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम् ॥१-५५-१४॥
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।
प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम् ॥१-५५-१५॥
यदि तुष्टो महादेव धनुर्वेदो ममानघ ।
सांगोपांगोपनिषदः सरहस्यः प्रदीयताम् ॥१-५५-१६॥
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।
गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ ॥१-५५-१७॥
तव प्रसादाद् भवतु देवदेव ममेप्सितम् ।
एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥१-५५-१८॥
प्राप्य चास्त्राणि देवेशाद् विश्वामित्रो महाबलः ।
दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा ॥१-५५-१९॥
विवर्धमानो वीर्येण समुद्र इव पर्वणि ।
हतं मेने तदा राम वसिष्ठमृषिसत्तमम् ॥१-५५-२०॥
ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः ।
यैस्तत् तपोवनं नाम निर्दग्धं चास्त्रतेजसा ॥१-५५-२१॥
उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः ।
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥१-५५-२२॥
वसिष्ठस्य च ये शिष्या ये च वै मृगपक्षिणः ।
विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः ॥१-५५-२३॥
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः ।
मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम् ॥१-५५-२४॥
वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ।
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥१-५५-२५॥
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥१-५५-२६॥
आश्रमं चिरसंवृद्धं यद् विनाशितवानसि ।
दुराचारो हि यन्मूढस्तस्मात् त्वं न भविष्यसि ॥१-५५-२७॥
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः ।
विधूम इव कालाग्निर्यमदण्डमिवापरम् ॥१-५५-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विश्वामित्रधनुर्वेदाधिगमः नाम पञ्चपञ्चाशः सर्गः ॥१-५५॥
Previous
पप्लवादिसृष्टिः
Next
ब्रह्मतेजोबलम्