पप्लवादिसृष्टिः

बालकाण्डः / पप्लवादिसृष्टिः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे पप्लवादिसृष्टिः नाम चतुःपञ्चाशः सर्गः ॥१-५४॥
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः । तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥१-५४-१॥
नीयमाना तु शबला राम राज्ञा महात्मना । दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥१-५४-२॥
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना । याहं राजभृतैर्दीना ह्रियेय भृशदुःखिता ॥१-५४-३॥
किं मयापकृतं तस्य महर्षेर्भावितात्मनः । यन्मामनागसं दृष्ट्वा भक्तां त्यजति धार्मिकः ॥१-५४-४॥
इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः । जगाम वेगेन तदा वसिष्ठं परमौजसम् ॥१-५४-५॥
निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन । जगामानिलवेगेन पादमूलं महात्मनः ॥१-५४-६॥
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् । वसिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना ॥१-५४-७॥
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत । यस्माद् राजभटा मां हि नयन्ते त्वत्सकाशतः ॥१-५४-८॥
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् । शोकसंतप्तहृदयां स्वसारमिव दुःखिताम् ॥१-५४-९॥
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया । एष त्वां नयते राजा बलान्मत्तो महाबलः ॥१-५४-१०॥
नहि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः । बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥१-५४-११॥
इयमक्षौहिणी पूर्णा गजवाजिरथाकुला । हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥१-५४-१२॥
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् । वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥१-५४-१३॥
न बलं क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः । ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम् ॥१-५४-१४॥
अप्रमेयं बलं तुभ्यं न त्वया बलवत्तरः । विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ॥१-५४-१५॥
नियुङ्क्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम् । तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः ॥१-५४-१६॥
इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः । सृजस्वेति तदोवाच बलं परबलार्दनम् ॥१-५४-१७॥
तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा । तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप ॥१-५४-१८॥
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः । स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः ॥१-५४-१९॥
पह्लवान् नाशयामास शस्त्रैरुच्चावचैरपि । विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा ॥१-५४-२०॥
भूय एवासृजद् घोरान् शकान् यवनमिश्रितान् । तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः ॥१-५४-२१॥
प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसंनिभैः । तीक्ष्णासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः ॥१-५४-२२॥
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः । ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह । तैस्ते यवनकाम्बोजा बर्बराश्चाकुलीकृताः ॥१-५४-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पप्लवादिसृष्टिः नाम चतुःपञ्चाशः सर्गः ॥१-५४॥