शबलानिष्क्रयः
बालकाण्डः / शबलानिष्क्रयः
Script
Translation
Previous
वसिष्ठातिथ्यम्
Next
पप्लवादिसृष्टिः
अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे शबलानिष्क्रयः नाम त्रिपञ्चाशः सर्गः ॥१-५३॥
एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।
विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा ॥१-५३-१॥
इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान् ।
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि ॥१-५३-२॥
उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः ।
मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च ॥१-५३-३॥
नानास्वादुरसानां च खाण्डवानां तथैव च ।
भोजनानि सुपूर्णानि गौडानि च सहस्रशः ॥१-५३-४॥
सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम् ।
विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम् ॥१-५३-५॥
विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत् ।
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः ॥१-५३-६॥
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥१-५३-७॥
पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः ।
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥१-५३-८॥
गवां शतसहस्रेण दीयतां शबला मम ।
रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः ॥१-५३-९॥
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ।
एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः ॥१-५३-१०॥
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ।
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ॥१-५३-११॥
राजन् दास्यामि शबलां राशिभी रजतस्य वा ।
न परित्यागमर्हेयं मत्सकाशादरिंदम ॥१-५३-१२॥
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ।
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ॥१-५३-१३॥
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ।
स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा ॥१-५३-१४॥
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ।
सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा ॥१-५३-१५॥
कारणैर्बहुभी राजन् न दास्ये शबलां तव ।
वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा ॥१-५३-१६॥
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ।
हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान् ॥१-५३-१७॥
ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ।
हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् ॥१-५३-१८॥
ददामि ते शतान्यष्टौ किंकिणीकविभूषितान् ।
हयानां देशजातानां कुलजानां महौजसाम् ।
सहस्रमेकं दश च ददामि तव सुव्रत ॥१-५३-१९॥
नानावर्णविभक्तानां वयःस्थानां तथैव च ।
ददाम्येकां गवां कोटिं शबला दीयतां मम ॥१-५३-२०॥
यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम ।
तावद् ददामि ते सर्वं दीयतां शबला मम ॥१-५३-२१॥
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
न दास्यामीति शबलां प्राह राजन् कथंचन ॥१-५३-२२॥
एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥१-५३-२३॥
दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ॥१-५३-२४॥
अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः ।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥१-५३-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे शबलानिष्क्रयः नाम त्रिपञ्चाशः सर्गः ॥१-५३॥
Previous
वसिष्ठातिथ्यम्
Next
पप्लवादिसृष्टिः