वसिष्ठातिथ्यम्
बालकाण्डः / वसिष्ठातिथ्यम्
Script
Translation
Previous
विश्वामित्रवृत्तम्
Next
शबलानिष्क्रयः
अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे वसिष्ठातिथ्यम् नाम द्विपञ्चाशः सर्गः ॥१-५२॥
तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।
प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम् ॥१-५२-१॥
स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना ।
आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥१-५२-२॥
उपविष्टाय च तदा विश्वामित्राय धीमते ।
यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥१-५२-३॥
प्रतिगृह्य तु तां पूजां वसिष्ठाद् राजसत्तमः ।
तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥१-५२-४॥
विश्वामित्रो महातेजा वनस्पतिगणे तदा ।
सर्वत्र कुशलं प्राह वसिष्ठो राजसत्तमम् ॥१-५२-५॥
सुखोपविष्टं राजानं विश्वामित्रं महातपाः ।
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥१-५२-६॥
कच्चित्ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन् ।
प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक ॥१-५२-७॥
कच्चित्ते सम्भृता भृत्याः कच्चित् तिष्ठन्ति शासने ।
कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ॥१-५२-८॥
कच्चिद् बलेषु कोशेषु मित्रेषु च परंतप ।
कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ ॥१-५२-९॥
सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् ।
विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम् ॥१-५२-१०॥
कृत्वा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा ।
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥१-५२-११॥
ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन ।
विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥१-५२-१२॥
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल ।
तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे ॥१-५२-१३॥
सत्क्रियां हि भवानेतां प्रतीच्छतु मया कृताम् ।
राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ॥१-५२-१४॥
एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः ।
कृतमित्यब्रवीद् राजा पूजावाक्येन मे त्वया ॥१-५२-१५॥
फलमूलेन भगवन् विद्यते यत् तवाश्रमे ।
पाद्येनाचमनीयेन भगवद्दर्शनेन च ॥१-५२-१६॥
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः ।
नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा ॥१-५२-१७॥
एवं ब्रुवन्तं राजानं वसिष्ठं पुनरेव हि ।
न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ॥१-५२-१८॥
बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।
यथाप्रियं भगवतस्तथास्तु मुनिपुंगव ॥१-५२-१९॥
एवमुक्तस्तथा तेन वसिष्ठो जपतां वरः ।
आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषाम् ॥१-५२-२०॥
एह्येहि शबले क्षिप्रं शृणु चापि वचो मम ।
सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् ।
भोजनेन महार्हेण सत्कारं संविधत्स्व मे ॥१-५२-२१॥
यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् ।
तत् सर्वं कामधुग् दिव्ये अभिवर्ष कृते मम ॥१-५२-२२॥
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् ।
अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥१-५२-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे वसिष्ठातिथ्यम् नाम द्विपञ्चाशः सर्गः ॥१-५२॥
Previous
विश्वामित्रवृत्तम्
Next
शबलानिष्क्रयः