दितिगर्भभेदः

बालकाण्डः / दितिगर्भभेदः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे दितिगर्भभेदः नाम षड्चत्वारिंशः सर्गः ॥१-४६॥
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता । मारीचं कश्यपं नाम भर्तारमिदमब्रवीत् ॥१-४६-१॥
हतपुत्रास्मि भगवंस्तव पुत्रौर्महाबलैः । शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम् ॥१-४६-२॥
साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि । ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥१-४६-३॥
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा । प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥१-४६-४॥
एवं भवतु भद्रं ते शुचिर्भव तपोधने । जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥१-४६-५॥
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि । पुत्रं त्रैलोक्यहन्तारं मत्तस्त्वं जनयिष्यसि ॥१-४६-६॥
एवमुक्त्वा महातेजाः पाणिना सम्ममार्ज ताम् । तामालभ्य ततः स्वस्ति इत्युक्त्वा तपसे ययौ ॥१-४६-७॥
गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता । कुशप्लवं समासाद्य तपस्तेपे सुदारुणम् ॥१-४६-८॥
तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह । सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ॥१-४६-९॥
अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च । न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम् ॥१-४६-१०॥
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा । शक्रः सर्वेषु कालेषु दितिं परिचचार ह ॥१-४६-११॥
पूर्णे वर्षसहस्रे सा दशोने रघुनन्दन । दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत् ॥१-४६-१२॥
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर । अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥१-४६-१३॥
यमहं त्वत्कृते पुत्र तमाधास्ये जयोत्सुकम् । त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वर ॥१-४६-१४॥
याचितेन सुरश्रेष्ठ पित्रा तव महात्मना । वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥१-४६-१५॥
इत्युक्त्वा च दितिस्तत्र प्राप्ते मध्यं दिनेश्वरे । निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥१-४६-१६॥
दृष्ट्वा तामशुचिं शक्रः पादयोः कृतमूर्धजाम् । शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥१-४६-१७॥
तस्याः शरीरविवरं प्रविवेश पुरंदरः । गर्भं च सप्तधा राम चिच्छेद परमात्मवान् ॥१-४६-१८॥
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा । रुरोद सुस्वरं राम ततो दितिरबुध्यत ॥१-४६-१९॥
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत । बिभेद च महातेजा रुदन्तमपि वासवः ॥१-४६-२०॥
न हन्तव्यं न हन्तव्यमित्येव दितिरब्रवीत् । निष्पपात ततः शक्रो मातुर्वचनगौरवात् ॥१-४६-२१॥
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत । अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा ॥१-४६-२२॥
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे । अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥१-४६-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दितिगर्भभेदः नाम षड्चत्वारिंशः सर्गः ॥१-४६॥