विशालागमनम्
बालकाण्डः / विशालागमनम्
Script
Translation
Previous
दितिगर्भभेदः
Next
शक्राहल्याशापः
अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे विशालागमनम् नाम सप्तचत्वारिंशः सर्गः ॥१-४७॥
सप्तधा तु कृते गर्भे दितिः परमदुःखिता ।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥१-४७-१॥
ममापराधाद् गर्भोऽयं सप्तधा शकलीकृतः ।
नापराधो हि देवेश तवात्र बलसूदन ॥१-४७-२॥
प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये ।
मरुतां सप्त सप्तानां स्थानपाला भवन्तु ते ॥१-४७-३॥
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक ।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥१-४७-४॥
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः ।
दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः ॥१-४७-५॥
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् ।
संचरिष्यन्ति भद्रं ते कालेन हि ममात्मजाः ॥१-४७-६॥
त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः ।
तस्यास्तद् वचनं श्रुत्वा सहस्राक्षः पुरन्दरः ॥१-४७-७॥
उवाच प्राञ्जलिर्वाक्यमतीदं बलसूदनः ।
सर्वमेतद् यथोक्तं ते भविष्यति न संशयः ॥१-४७-८॥
विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः ।
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ॥१-४७-९॥
जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् ।
एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा ॥१-४७-१०॥
दितिं यत्र तपःसिद्धामेवं परिचचार सः ।
इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः ॥१-४७-११॥
अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः ।
तेन चासीदिह स्थाने विशालेति पुरी कृता ॥१-४७-१२॥
विशालस्य सुतो राम हेमचन्द्रो महाबलः ।
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥१-४७-१३॥
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः ।
धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ॥१-४७-१४॥
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥१-४७-१५॥
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥१-४७-१६॥
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम् ।
आवसत् परमप्रख्यः सुमतिर्नाम दुर्जयः ॥१-४७-१७॥
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥१-४७-१८॥
इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम् ।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥१-४७-१९॥
सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।
श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन्महायशाः ॥१-४७-२०॥
पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः ।
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥१-४७-२१॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने ।
सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम ॥१-४७-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विशालागमनम् नाम सप्तचत्वारिंशः सर्गः ॥१-४७॥
Previous
दितिगर्भभेदः
Next
शक्राहल्याशापः