अमृतोत्पत्तिः

बालकाण्डः / अमृतोत्पत्तिः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे अमृतोत्पत्तिः नाम पञ्चचत्वारिंशः सर्गः ॥१-४५॥
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः । विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥१-४५-१॥
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया । गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥१-४५-२॥
क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप । इमां चिन्तयतोः सर्वां निखिलेन कथां तव ॥१-४५-३॥
तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह । जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम् ॥१-४५-४॥
ततः प्रभाते विमले विश्वामित्रं तपोधनम् । उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ॥१-४५-५॥
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् । तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ॥१-४५-६॥
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् । भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥१-४५-७॥
तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः । सन्तारं कारयामास सर्षिसङ्घस्य कौशिकः ॥१-४५-८॥
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः । गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥१-४५-९॥
ततो मुनिवरस्तूर्णं जगाम सहराघवः । विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥१-४५-१०॥
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् । पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ॥१-४५-११॥
कतमो राजवंशोऽयं विशालायां महामुने । श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥१-४५-१२॥
तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्गवः । आख्यातुं तत्समारेभे विशालायाः पुरातनम् ॥१-४५-१३॥
श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम् । अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव ॥१-४५-१४॥
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः । अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः ॥१-४५-१५॥
ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम् । अमरा विजराश्चैव कथं स्यामो निरामयाः ॥१-४५-१६॥
तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम् । क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥१-४५-१७॥
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् । मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥१-४५-१८॥
अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च । वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः ॥१-४५-१९॥
उत्पपाताग्निसंकाशं हालाहलमहाविषम् । तेन दग्धं जगत् सर्वं सदेवासुरमानुषम् ॥१-४५-२०॥
अथ देवा महादेवं शङ्करं शरणार्थिनः । जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः ॥१-४५-२१॥
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः । प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः ॥१-४५-२२॥
उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः । दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम् ॥१-४५-२३॥
तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत् । अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो ॥१-४५-२४॥
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत । देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः ॥१-४५-२५॥
हालाहलं विषं घोरं संजग्राहामृतोपमम् । देवान् विसृज्य देवेशो जगाम भगवान् हरः ॥१-४५-२६॥
ततो देवासुराः सर्वे ममन्थू रघुनन्दन । प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः ॥१-४५-२७॥
ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम् । त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ॥१-४५-२८॥
पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि । इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः ॥१-४५-२९॥
पर्वतं पृष्ठतः कृत्वा शिष्ये तत्रोदधौ हरिः । पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः ॥१-४५-३०॥
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः । अथ वर्षसहस्रेण आयुर्वेदमयः पुमान् ॥१-४५-३१॥
उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः । पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ॥१-४५-३२॥
अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः । उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥१-४५-३३॥
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम् । असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥१-४५-३४॥
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः । अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः ॥१-४५-३५॥
वरुणस्य ततः कन्या वारुणी रघुनन्दन । उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥१-४५-३६॥
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् । अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ॥१-४५-३७॥
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः । हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः ॥१-४५-३८॥
उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् । उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥१-४५-३९॥
अथ तस्य कृते राम महानासीत् कुलक्षयः । अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन् ॥१-४५-४०॥
एकतामगमन् सर्वे असुरा राक्षसैः सह । युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥१-४५-४१॥
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः । अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम् ॥१-४५-४२॥
ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम् । सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥१-४५-४३॥
अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे । अस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम् ॥१-४५-४४॥
निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः । शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥१-४५-४५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अमृतोत्पत्तिः नाम पञ्चचत्वारिंशः सर्गः ॥१-४५॥