सागरोद्धारः

बालकाण्डः / सागरोद्धारः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे सागरोद्धारः नाम चतुश्चत्वारिंशः सर्गः ॥१-४४॥
स गत्वा सागरं राजा गङ्गायानुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥१-४४-१॥
भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥१-४४-२॥
तारिता नरशार्दूल दिवं याताश्च च देववत् । षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥१-४४-३॥
सागरस्य जलं लोके यावत्स्थास्यति पार्थिव । सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत् ॥१-४४-४॥
इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥१-४४-५॥
गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता ॥१-४४-६॥
पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥१-४४-७॥
पूर्वकेण हि ते राजंस्तेनातियशसा तदा । धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः ॥१-४४-८॥
तथैवांशुमता तात लोकेऽप्रतिमतेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥१-४४-९॥
राजर्षिणा गुणवता महर्षिसमतेजसा । मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥१-४४-१०॥
दिलीपेन महाभाग तव पित्रातितेजसा । पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ ॥१-४४-११॥
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥१-४४-१२॥
तच्च गङ्गावतरणं त्वया कृतमरिंदम । अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥१-४४-१३॥
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥१-४४-१४॥
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥१-४४-१५॥
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः । यथागतं तथागच्चद् देवलोकं महायशाः ॥१-४४-१६॥
भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम् । यथाक्रमं यथान्यायं सागराणां महायशाः ॥१-४४-१७॥
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह । समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥१-४४-१८॥
प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥१-४४-१९॥
एष ते राम गंगाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ॥१-४४-२०॥
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च । यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥१-४४-२१॥
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च । इदमाख्यानमायुष्यं गंगावतरणं शुभम् ॥१-४४-२२॥
यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् । सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥१-४४-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सागरोद्धारः नाम चतुश्चत्वारिंशः सर्गः ॥१-४४॥