अश्वमेधसंभारः

बालकाण्डः / अश्वमेधसंभारः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे अश्वमेधसंभारः नाम द्वादशः सर्गः ॥१-१२॥
ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे । वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥१-१२-१॥
ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् । यज्ञाय वरयामास संतानार्थं कुलस्य च ॥१-१२-२॥
तथेति च स राजानमुवाच वसुधाधिपम् । सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-१२-३॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । ततोऽब्रवीन्नृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥१-१२-४॥
सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः । सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥१-१२-५॥
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः । ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ॥१-१२-६॥
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् । तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥१-१२-७॥
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् । मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥१-१२-८॥
पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम । तदहं यष्टुमिच्छामि हयमेधेन कर्मणा ॥१-१२-९॥
ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् । ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् । ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥१-१२-११॥
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-१२-१२॥
सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् । यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥१-१२-१३॥
ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् । अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥१-१२-१४॥
गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे । समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥१-१२-१५॥
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥१-१२-१६॥
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता । नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१-१२-१७॥
छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः । विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥
तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणेष्विह ॥१-१२-१९॥
तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् । पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत ॥१-१२-२०॥
ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् । अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥१-१२-२१॥
गतेषु तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः । विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥१-१२-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अश्वमेधसंभारः नाम द्वादशः सर्गः ॥१-१२॥