ऋष्यशृङ्गस्यायोध्याप्रवेशः

बालकाण्डः / ऋष्यशृङ्गस्यायोध्याप्रवेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे ऋष्यशृङ्गस्यायोध्याप्रवेशः नाम एकादशः सर्गः ॥१-११॥
भूय एव हि राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥१-११-२॥
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥१-११-३॥
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥
अनपत्योऽस्मि धर्मात्मञ्छान्ताभर्ता मम क्रतुम् । आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥१-११-५॥
श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च । प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ॥१-११-६॥
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः । आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥१-११-७॥
तं च राजा दशरथो यशस्कामः कृताञ्जलिः । ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥१-११-८॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः । लभते च स तं कामं द्विजमुख्याद् विशाम्पतिः ॥१-११-९॥
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः । वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥१-११-१०॥
एवं स देवप्रवरः पूर्वं कथितवान् कथाम् । सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥
स त्वं पुरुषशार्दूल समानय सुसत्कृतम् । स्वयमेव महाराज गत्वा सबलवाहनः ॥१-११-१२॥
सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् । अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥१-११-१३॥
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः । वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः । आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥१-११-१५॥
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् । ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥१-११-१६॥
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना । रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥१-११-१७॥
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् । एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥१-११-१८॥
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् । शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥१-११-१९॥
मदीयं नगरं यातु कार्यं हि महदुद्यतम् । तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥१-११-२०॥
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया । ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥१-११-२१॥
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया । तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥१-११-२२॥
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् । ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥
पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः । क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥१-११-२४॥
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् । ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥१-११-२५॥
तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा । ततः स्वलंकृतं राजा नगरं प्रविवेश ह ॥१-११-२६॥
शङ्खदुन्दुभिनिर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् । ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥१-११-२७॥
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा । यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः । कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥१-११-२९॥
अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् । सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥१-११-३०॥
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः । उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥१-११-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे ऋष्यशृङ्गस्यायोध्याप्रवेशः नाम एकादशः सर्गः ॥१-११॥