यज्ञशालाप्रवेशः

बालकाण्डः / यज्ञशालाप्रवेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे यज्ञशालाप्रवेशः नाम त्रयोदशः सर्गः ॥१-१३॥
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् । प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥१-१३-१॥
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च । अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥१-१३-२॥
यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव । यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥१-१३-३॥
भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् । वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥१-१३-४॥
तथेति च स राजानमब्रवीद् द्विजसत्तमः । करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥१-१३-५॥
ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् । स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥१-१३-६॥
कर्मान्तिकान् शिल्पकरान्वर्धकीन् खनकानपि । गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥१-१३-७॥
तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् । यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥१-१३-८॥
इष्टका बहुसाहस्री शीघ्रमानीयतामिति । उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥१-१३-९॥
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः । भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥
तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः । आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥१-१३-११॥
वाजिवारणशालाश्च तथा शय्यागृहाणि च । भटानां महदावासा वैदेशिकनिवासिनाम् ॥१-१३-१२॥
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः । तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥१-१३-१३॥
दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया । सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि । यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥१-१३-१५॥
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् । ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥१-१३-१६॥
यथा सर्वं सुविहितं न किंचित् परिहीयते । तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥१-१३-१७॥
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् । यथेष्टं तत् सुविहितं न किंचित् परिहीयते ॥१-१३-१८॥
यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते । ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥१-१३-१९॥
निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः । ब्राह्मणान्क्षत्रियान्वैश्याञ्छूद्रांश्चैव सहस्रशः ॥१-१३-२०॥
समानयस्व सत्कृत्य सर्वदेशेषु मानवान् । मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥१-१३-२१॥
तमानय महाभागं स्वयमेव सुसत्कृतम् । पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥१-१३-२२॥
तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् । सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥१-१३-२३॥
तथा केकयराजानं वृद्धं परमधार्मिकम् । श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२४॥
अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् । वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२५॥
तथा कोसलराजानं भानुमन्तं सुसंस्कृतम् । मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥१-१३-२६॥
प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् । राज्ञः शासनमादाय चोदयस्व नृपर्षभान् । प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान् ॥१-१३-२७॥
दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह । सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥१-१३-२८॥
तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् । एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥१-१३-२९॥
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा । व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥१-१३-३०॥
स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् । सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥१-१३-३१॥
ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये । सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥१-१३-३२॥
ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् । अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥१-१३-३३॥
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः । ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥१-१३-३४॥
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह । ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥१-१३-३५॥
उपयाता नरव्याघ्र राजानस्तव शासनात् । मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥१-१३-३६॥
यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः । निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥१-१३-३७॥
सर्वकामैरुपहृतैरुपेतं वै समन्ततः । द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥
तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः । दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥
ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः । ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥१-१३-४०॥
यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि । श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥१-१३-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे यज्ञशालाप्रवेशः नाम त्रयोदशः सर्गः ॥१-१३॥