मार्कण्डेय चरितम्
मार्कण्डेय चरितम्
Script
Translation
Previous
भगवत् विभूतयः ज्ञान कर्म भक्ति योगः च
Next
निष्कल ब्रह्म उपासनम्
अथ श्रीमन्नारायणीयम्
सप्तनवतितमम् दशकम्
मार्कण्डेय चरितम्
त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत्
ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदा: ।
त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं
प्राहुर्नैगुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥१॥
त्वय्येव न्यस्तचित्त: सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं
त्वद्भक्तै: सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् ।
दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान-
स्पर्धासूयादिदोष: सततमखिलभूतेषु संपूजये त्वाम् ॥२॥
त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं
कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् ।
त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणाश:
तस्मात्सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोज्ञम् ॥३॥
तं चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु:
दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् ।
मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चै:
सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥४॥
मार्कण्डेयश्चिरायु: स खलु पुनरपि त्वत्पर: पुष्पभद्रा-
तीरे निन्ये तपस्यन्नतुलसुखरति: षट् तु मन्वन्तराणि ।
देवेन्द्र: सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्
योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् क: ॥५॥
प्रीत्या नारायणाख्यस्त्वमथ नरसख: प्राप्तवानस्य पार्श्वं
तुष्ट्या तोष्टूयमान: स तु विविधवरैर्लोभितो नानुमेने ।
द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा
मायादु:खानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतो: ॥६॥
याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्णत्-
सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटी: ।
दीन: प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं
त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥७॥
दृष्ट्वा त्वां हृष्टरोमा त्वरितमुपगत: स्प्रष्टुकामो मुनीन्द्र:
श्वासेनान्तर्निविष्ट: पुनरिह सकलं दृष्टवान् विष्टपौघम् ।
भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै:
मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥८॥
गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी
सिद्धानेवास्य दत्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् ।
एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मात्
मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥९॥
त्र्यंशेस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं
तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोक: ।
तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी
सच्चित्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥१०॥
Previous
भगवत् विभूतयः ज्ञान कर्म भक्ति योगः च
Next
निष्कल ब्रह्म उपासनम्