भगवत् विभूतयः ज्ञान कर्म भक्ति योगः च

भगवत् विभूतयः ज्ञान कर्म भक्ति योगः च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
षण्णवतितमम् दशकम्
भगवत् विभूतय: ज्ञान कर्म भक्ति योग: च
त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार:
तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । प्रह्लादो दानवानां पशुषु च सुरभि: पक्षिणां वैनतेयो नागानामस्यनन्तस्सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥१॥
ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित् प्रपञ्चे ॥२॥
धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकै: सन्त्यजन्तो लभन्ते । सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥३॥
ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावत् निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकार: । सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता: नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥४॥
ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा । आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथा: ॥५॥
अव्यक्तं मार्गयन्त: श्रुतिभिरपि नयै: केवलज्ञानलुब्धा: क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । दूरस्थ: कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग: त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥६॥
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्ति: कराग्रे । त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो: अभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥७॥
निर्विण्ण: कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् । तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गा: ॥८॥
कश्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौघै: प्रागेवं प्राह विप्रो न खलु मम जन: कालकर्मग्रहा वा । चेतो मे दु:खहेतुस्तदिह गुणगणं भावयत्सर्वकारी- त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशी चित्तशान्तिम् ॥९॥
ऐल: प्रागुर्वशीं प्रत्यतिविवशमना: सेवमानश्चिरं तां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । त्वद्भक्तिं प्राप्य पूर्ण: सुखतरमचरत्तद्वदुद्धूतसङ्गं भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धि रोगान् ॥१०॥