निष्कल ब्रह्म उपासनम्

निष्कल ब्रह्म उपासनम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
अष्टनवतितमम् दशकम्
निष्कल ब्रह्म उपासनम्
यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एतत्
योऽस्मादुत्तीर्णरूप: खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा: नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥१॥
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतये य: स्वयमनुभजते तानि मायानुसारी । विभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भुतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥२॥
नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहु: । शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥३॥
मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै: भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् । भूय: संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥४॥
शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपन्ति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥५॥
सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥६॥
भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत् तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टु: प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वत् विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥७॥
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीता: पद्मजाद्या: पुनरुचितबलीनाहरन्तेऽनुकालम् । येनैवारोपिता: प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण कुर्म: प्रणामम् ॥८॥
त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमाक्रान्तविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥९॥
सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तः निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥१०॥
दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं सम्भ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं विष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघात् ॥११॥