चतुर्विंशतिः गुरवः

चतुर्विंशतिः गुरवः

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
त्रिनवतितमम् दशकम्
चतुर्विंशति: गुरव:
बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् । नानात्वाद्भ्रान्तिजन्यात् सति खलु गुणदोषावबोधे विधिर्वा व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धे: ॥१॥
क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तव: सन्त्यनन्ता: तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव । तत्राप्यात्मात्मन: स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता: तापोच्छित्तेरुपायं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्य: ॥२॥
त्वत्कारुण्ये प्रवृत्ते क इव नहि गुरुर्लोकवृत्तेऽपि भूमन् सर्वाक्रान्तापि भूमिर्नहि चलति ततस्सत्क्षमां शिक्षयेयम् । गृह्णीयामीश तत्तद्विषयपरिचयेऽप्यप्रसक्तिं समीरात् व्याप्तत्वञ्चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥३॥
स्वच्छ: स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् । पुष्टिर्नष्टि: कलानां शशिन इव तनोर्नात्मनोऽस्तीति विद्यां तोयादिव्यस्तमार्ताण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥४॥
स्नेहाद्व्याधात्तपुत्रव्यसनमृतकपोतायितो मा स्म भूवं प्राप्तं प्राश्नन् सहेय क्षुधमपि शयुवत् सिन्धुवत्स्यामगाध: । मा पप्तं योषिदादौ शिखिनि शलभवत् भृङ्गवत्सारभागी भूयासं किन्तु तद्वद्धनचयनवशान्माहमीश प्रणेशम् ॥५॥
मा बद्ध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा मुहं ग्राम्यगीतै: । नात्यासज्जेय भोज्ये झष इव बलिशे पिङ्गलावन्निराश: सुप्यां भर्तव्ययोगात् कुरर इव विभो सामिषोऽन्यैर्न हन्यै ॥६॥
वर्तेय त्यक्तमान: सुखमतिशिशुवन्निस्सहायश्चरेयं कन्याया एकशेषो वलय इव विभो वर्जितान्योन्यघोष: । त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥७॥
त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् । विड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिं धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥८॥
ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतो: गेहे वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति । सोऽयं वह्नेश्शुनो वा परमिह परत: साम्प्रतञ्चाक्षिकर्ण- त्वग्जिह्वाद्या विकर्षन्त्यवशमत इत: कोऽपि न त्वत्पदाब्जे ॥९॥
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष । नूनं नानाभवान्ते समधिगतममुं मुक्तिदं विप्रदेहं क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ॥१०॥