कर्म मिश्र भक्तिः

कर्म मिश्र भक्तिः

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
द्विनवतितमम् दशकम्
कर्म मिश्र भक्ति:
वेदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वा
तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश । मा भूद्वेदैर्निषिद्धे कुहचिदपि मन:कर्मवाचां प्रवृत्ति: दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥१॥
यस्त्वन्य: कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिं हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा । पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितै: शक्तितो भक्तिपूतै: नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् ॥२॥
स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा: त्वत्पादासन्नयातान् द्विजकुलजनुषो हन्त शोचाम्यशान्तान् । वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो दृप्ता विद्याभिजात्यै: किमु न विदधते तादृशं मा कृथा माम् ॥३॥
पापोऽयं कृष्णरामेत्यभिलपति निजं गूहितुं दुश्चरित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि । भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते निन्दन्त्युच्चैर्हसन्ति त्वयि निहितमतींस्तादृशं मा कृथा माम् ॥४॥
श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि: त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते । सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥५॥
सोऽयं कालेयकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यै: निर्यत्नैरेव मार्गैरखिलद न चिरात्त्वत्प्रसादं भजन्ते । जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते दैवात्तत्रैव जातान् विषयविषरसैर्मा विभो वञ्चयास्मान् ॥६॥
भक्तास्तावत्कलौ स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चै: कावेरीं ताम्रपर्णीमनु किल कृतमालां च पुण्यां प्रतीचीम् । हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चद्रसं त्व- य्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥७॥
दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित् परीक्षित् हन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् । त्वत्सेवाद्याशु सिद्ध्येदसदिह न तथा त्वत्परे चैष भीरु: यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥८॥
गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् सालग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णा: । एतान्यष्टाप्ययत्नान्यपि कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानीत्यभिदधुर्ऋषयस्तेषु मां सज्जयेथा: ॥९॥
देवर्षीणां पितॄणामपि न पुनर्ऋणी किङ्करो वा स भूमन् । योऽसौ सर्वात्मना त्वां शरणमुपगतस्सर्वकृत्यानि हित्वा । तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पापोत्थतापान् पवनपुरपते रुन्धि भक्तिं प्रणीया: ॥१०॥