तत्त्व ज्ञान उत्पत्तिः

तत्त्व ज्ञान उत्पत्तिः

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
चतुर्नवतितमम् दशकम्
तत्त्व ज्ञान उत्पत्ति:
शुद्धा निष्कामधर्मै: प्रवरगुरुगिरा तत्स्वरूपं परं ते
शुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते । नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥१॥
आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार- ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥२॥
एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगा: । दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता मत्तास्त्वां विस्मरन्त: प्रसजति पतने यान्त्यनन्तान् विषादान् ॥३॥
त्वल्लोकादन्यलोक: क्वनु भयरहितो यत् परार्धद्वयान्ते त्वद्भीतस्सत्यलोकेऽपि न सुखवसति: पद्मभू: पद्मनाभ । एवं भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां तन्मे त्वं छिन्धि बन्धं वरद कृपणबन्धो कृपापूरसिन्धो ॥४॥
याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥५॥
जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे तन्नामाशुद्धबुद्धेर्न च लघु मनसश्शोधनं भक्तितोऽन्यत् । तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं येन स्यां मङ्क्षु किञ्चिद् गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥६॥
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् । यस्यां विश्वाभिरामास्सकलमलहरा दिव्यलीलावतारा: सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥७॥
यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूमन् नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् । त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादि: भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥८॥
यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासोऽस्मि तेऽहं त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहु: कर्म निर्मायमेव । सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोग: ॥९॥
ऐक्यं ते दानहोमव्रतनियमतपस्सांख्ययोगैर्दुरापं त्वत्सङ्गेनैव गोप्य: किल सुकृतितमा प्रापुरानन्दसान्द्रम् । भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण वातालयेश ॥१०॥