वृकासुर कथा भृगु परीक्षणं च

वृकासुर कथा भृगु परीक्षणं च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
एकोनवतितमम् दशकम्
वृकासुर कथा भृगु परीक्षणं च
रमाजाने जाने यदिह तव भक्तेषु विभवो
न सद्यस्सम्पद्यस्तदिह मदकृत्त्वादशमिनाम् । प्रशान्तिं कृत्वैव प्रदिशसि तत: काममखिलं प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥१॥
सद्य: प्रसादरुषितान् विधिशङ्करादीन् केचिद्विभो निजगुणानुगुणं भजन्त: । भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या स्पष्टं वृकासुर उदाहरणं किलास्मिन् ॥२॥
शकुनिज: स तु नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् । स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥३॥
तपस्तप्त्वा घोरं स खलु कुपित: सप्तमदिने शिर: छित्वा सद्य: पुरहरमुपस्थाप्य पुरत: । अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधी: ॥४॥
मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं दैत्यात् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टि: । तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥५॥
भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्गमौलौ । इत्थं त्वद्वाक्यमूढ: शिरसि कृतकर: सोऽपतच्छिन्नपातं भ्रंशो ह्येवं परोपासितुरपि च गति: शूलिनोऽपि त्वमेव ॥६॥
भृगुं किल सरस्वतीनिकटवासिनस्तापसा: त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥७॥
सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । सर्वं क्षमस्व मुनिवर्य भवेत् सदा मे त्वत्पादचिह्नमिह भूषणमित्यवादी: ॥८॥
निश्चित्य ते च सुदृढं त्वयि बद्धभावा: सारस्वता मुनिवरा दधिरे विमोक्षम् । त्वामेवमच्युत पुनश्च्युतिदोषहीनं सत्त्वोच्चयैकतनुमेव वयं भजाम: ॥९॥
जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् । परात्मानं भूमन् पशुपवनिताभाग्यनिवहं परीतापश्रान्त्यै पवनपुरवासिन् परिभजे ॥१०॥