विष्णु महत्त्व स्थापनम्

विष्णु महत्त्व स्थापनम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
नवतितमम् दशकम्
विष्णु महत्त्व स्थापनम्
वृकभृगुमुनिमोहिन्यम्बरीषादिवृत्ते-
ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् । स्थितमिह परमात्मन् निष्कलार्वागभिन्नं किमपि यदवभातं तद्धि रूपं तवैव ॥१॥
मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् प्राहु: परात्मवपुरेव सदाशिवोऽस्मिन् । तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥२॥
तत्रापि सात्त्विकतनुं तव विष्णुमाहु: धाता तु सत्त्वविरलो रजसैव पूर्ण: । सत्त्वोत्कटत्वमपि चास्ति तमोविकार- चेष्टादिकञ्च तव शङ्करनाम्नि मूर्तौ ॥३॥
तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां शर्वात्मनापि खलु सर्वमयत्वहेतो: । शंसन्त्युपासनविधौ तदपि स्वतस्तु त्वद्रूपमित्यतिदृढं बहु न: प्रमाणम् ॥४॥
श्रीशङ्करोऽपि भगवान् सकलेषु तावत् त्वामेव मानयति यो न हि पक्षपाती । त्वन्निष्ठमेव स हि नामसहस्रकादि व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥५॥
मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र- स्यादौ कलायसुषमं सकलेश्वरं त्वाम् । ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा त्वामेव तत्र सकलं निजगाद नान्यम् ॥६॥
समस्तसारे च पुराणसङ्ग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । त्रिमूर्तियुक्सत्यपदत्रिभागत: परं पदं ते कथितं न शूलिन: ॥७॥
यत् ब्राह्मकल्प इह भागवतद्वितीय- स्कन्धोदितं वपुरनावृतमीश धात्रे । तस्यैव नाम हरिशर्वमुखं जगाद श्रीमाधव: शिवपरोऽपि पुराणसारे ॥८॥
ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते तेषां फलं हि दृढयैव तदीयभक्त्या । व्यासो हि तेन कृतवानधिकारिहेतो: स्कन्दादिकेषु तव हानिवचोऽर्थवादै: ॥९॥
भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगतय: खलु रोचनार्था: । स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा: त्वत्तामसत्वपरिभूत्युपशिक्षणाद्या: ॥१०॥
यत् किञ्चिदप्यविदुषाऽपि विभो मयोक्तं तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव । व्यासोक्तिसारमयभागवतोपगीत क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ॥११॥