श्री सन्तान गोपालः

श्री सन्तान गोपालः

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
अष्टाशीतितमम् दशकम्
श्री सन्तान गोपाल:
प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां
काङ्क्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । धातु: शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्नान् आनीयैनान् प्रदर्श्य स्वपदमनयथा: पूर्वपुत्रान् मरीचे: ॥१॥
श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसै: समेत: ॥२॥
गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेतम् एकेन भूरिविभवैर्विहितोपचार: । अन्येन तद्दिनभृतैश्च फलौदनाद्यै: तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥३॥
भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वम् को वा दैवं निरुन्ध्यादिति किल कथयन् विश्ववोढाप्यसोढा: । जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥४॥
नष्टा अष्टास्य पुत्रा: पुनरपि तव तूपेक्षया कष्टवाद: स्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थ: । मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुत: सन्निवेक्ष्ये कृशानुम् ॥५॥
मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रैः रुन्धान: सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे । याम्यामैन्द्रीं तथाऽन्या: सुरवरनगरीर्विद्ययाऽऽसाद्य सद्यो मोघोद्योग: पतिष्यन् हुतभुजि भवता सस्मितं वारितोऽभूत् ॥६॥
सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् । चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां पारे त्वं प्राददर्श: किमपि हि तमसां दूरदूरं पदं ते ॥७॥
तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै: आवीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् । मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् ॥८॥
युवां मामेव द्वावधिकविवृतान्तर्हिततया विभिन्नौ सन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् । नयेतं द्रागेतानिति खलु वितीर्णान् पुनरमून् द्विजायादायादा: प्रणुतमहिमा पाण्डुजनुषा ॥९॥
एवं नानाविहारैर्जगदभिरमयन् वृष्णिवंशं प्रपुष्णन् ईजानो यज्ञभेदैरतुलविहृतिभि: प्रीणयन्नेणनेत्रा: । भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्ण: पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासी: ॥१०॥
प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसार्द्र: तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽऽस्ते बदर्याम् ॥११॥
सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीति- स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदै: । आर्तिं तीर्त्वा समस्ताममृतपदमगुस्सर्वत: सर्वलोका: स त्वं विश्वार्तिशान्त्यै पवनपुरपते भक्तिपूर्त्यै च भूया: ॥१२॥