जरासन्ध वधः शिशुपाल वधः च
जरासन्ध वधः शिशुपाल वधः च
Script
Translation
Previous
समन्तपञ्चक यात्रा बन्धुमित्रादि समागमः च
Next
साल्वादि वधः भारत युद्धं च
अथ श्रीमन्नारायणीयम्
पञ्चाशीतितमम् दशकम्
जरासन्ध वध: शिशुपाल वध: च
ततो मगधभूभृता चिरनिरोधसंक्लेशितं
शताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।
अनाथशरणाय ते कमपि पूरुषं प्राहिणोत्
अयाचत स मागधक्षपणमेव किं भूयसा ॥१॥
यियासुरभिमागधं तदनु नारदोदीरितात्
युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुल: ।
विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
शशंसुषि निजै: समं पुरमियेथ यौधिष्ठिरीम् ॥२॥
अशेषदयितायुते त्वयि समागते धर्मजो
विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितै: ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं
भवन्तमयि मागधे प्रहितवान् सभीमार्जुनम् ॥३॥
गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो
ययाच समरोत्सवं द्विजमिषेण तं मागधम् ।
अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्
निरीक्ष्य सह जिष्णुना त्वमपि राजयुद्ध्वा स्थित: ॥४॥
अशान्तसमरोद्धतं विटपपाटनासंज्ञया
निपात्य जरस: सुतं पवनजेन निष्पाटितम् ।
विमुच्य नृपतीन् मुदा समनुगृह्य भक्तिं परां
दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुव: ॥५॥
प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् ।
त्वमप्ययि जगत्पते द्विजपदावनेजादिकं
चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नति: ॥६॥
तत: सवनकर्मणि प्रवरमग्र्यपूजाविधिं
विचार्य सहदेववागनुगत: स धर्मात्मज: ।
व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥७॥
तत: सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
सभाजयति को जड: पशुपदुर्दुरूटं वटुम् ।
इति त्वयि स दुर्वचोविततिमुद्वमन्नासनात्
उदापतदुदायुध: समपतन्नमुं पाण्डवा: ॥८॥
निवार्य निजपक्षगानभिमुखस्यविद्वेषिण:
त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा ।
जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी:
त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥९॥
तत: सुमहिते त्वया क्रतुवरे निरूढे जनो
ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खल: स तु सुयोधनो धुतमनास्सपत्नश्रिया
मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥१०॥
तदा हसितमुत्थितं द्रुपदनन्दनाभीमयो:
अपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् ।
धराभरनिराकृतौ सपदि नाम बीजं वपन्
जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥११॥
Previous
समन्तपञ्चक यात्रा बन्धुमित्रादि समागमः च
Next
साल्वादि वधः भारत युद्धं च