समन्तपञ्चक यात्रा बन्धुमित्रादि समागमः च

समन्तपञ्चक यात्रा बन्धुमित्रादि समागमः च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
चतुरशीतितमम् दशकम्
समन्तपञ्चक यात्रा बन्धुमित्रादि समागम: च
क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू ।
यदुकुलमहिलावृत: सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥१॥
बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्य तीर्थतोयम् । द्विजगणपरिमुक्तवित्तराशि: सममिलथा: कुरुपाण्डवादिमित्रै: ॥२॥
तव खलु दयिताजनै: समेता द्रुपदसुता त्वयि गाढभक्तिभारा । तदुदितभवदाहृतिप्रकारै: अतिमुमुदे सममन्यभामिनीभि: ॥३॥
तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा । चिरतरविरहातुराङ्गरेखा: पशुपवधू: सरसं त्वमन्वयासी: ॥४॥
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् । अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषी: ॥५॥
रिपुजनकलहै: पुन: पुनर्मे समुपगतैरियती विलम्बनाऽभूत् । इति कृतपरिरम्भणेत्वयि द्राक् अतिविवशा खलु राधिका निलिल्ये ॥६॥
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । परमसुखचिदात्मकोऽहमात्मेत्युदयतु व: स्फुटमेव चेतसीति ॥७॥
सुखरसपरिमिश्रितो वियोग: किमपि पुराऽभवदुद्धवोपदेशै: । समभवदमुत: परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥८॥
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानै: । त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदाऽसौ ॥९॥
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपा: । यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजु : ॥१०॥
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । प्रमुदितहृदय: पुरं प्रयात: पवनपुरेश्वर पाहि मां गदेभ्य: ॥११॥