साल्वादि वधः भारत युद्धं च

साल्वादि वधः भारत युद्धं च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
षडशीतितमम् दशकम्
साल्वादि वध: भारत युद्धं च
साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं
विन्दन् सौभं स मायी त्वयि वसति कुरुंस्त्वत्पुरीमभ्यभाङ्क्षीत् । प्रद्युम्नस्तं निरुन्धन्निखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं तस्यामात्यं द्युमन्तं व्यजनि च समर: सप्तविंशत्यहान्तम् ॥१॥
तावत्त्वं रामशाली त्वरितमुपगत: खण्डितप्रायसैन्यं सौभेशं तं न्यरुन्धा: स च किल गदया शार्ङ्गमभ्रंशयत्ते । मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥२॥
क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे- णोत्कृत्ते दन्तवक्त्र: प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते । कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतार: ॥३॥
त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयताया: क्रन्दन्त्या याज्ञसेन्या: सकरुणमकृथाश्चेलमालामनन्ताम् । अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ प्राप्त: शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥४॥
युद्धोद्योगेऽथ मन्त्रे मिलति सति वृत: फल्गुनेन त्वमेक: कौरव्ये दत्तसैन्य: करिपुरमगमो दौत्यकृत् पाण्डवार्थम् । भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभू: ॥५॥
जिष्णोस्त्वं कृष्ण सूत: खलु समरमुखे बन्धुघाते दयालुं खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोऽयमात्मा । को वध्य: कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥६॥
भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते नित्यं नित्यं विभिन्दत्ययुतसमधिकं प्राप्तसादे च पार्थे । निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली- वाधावन् प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागा: ॥७॥
युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं वक्षस्याधत्त चक्रस्थगितरविमहा: प्रार्दयत्सिन्धुराजम् । नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं तत्रे त्रापि पार्थं किमिव नहि भवान् पाण्डवानामकार्षीत् ॥८॥
युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छन् अप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा । यज्ञघ्नं वल्कलं पर्वणि परिदलयन् स्नाततीर्थो रणान्ते सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यात: पुरीं ते ॥९॥
संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जह्रे । उच्छित्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे रक्षन्नङ्गुष्ठमात्र: किल जठरमगाश्चक्रपाणिर्विभो त्वम् ॥१०॥
धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युस्स भीष्म: त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं सम्प्राप्तो द्वरकां त्वं पवनपुरपते पाहि मां सर्वरोगात् ॥११॥