पौण्ड्रक वधः विविध वधः च
पौण्ड्रक वधः विविध वधः च
Script
Translation
Previous
बाणयुद्धम् नृग मोक्षः च
Next
समन्तपञ्चक यात्रा बन्धुमित्रादि समागमः च
अथ श्रीमन्नारायणीयम्
त्र्यशीतितमम् दशकम्
पौण्ड्रक वध: विविध वध: च
रामेऽथ गोकुलगते प्रमदाप्रसक्ते
हूतानुपेतयमुनादमने मदान्धे ।
स्वैरं समारमति सेवकवादमूढो
दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेव: ॥१॥
नारायणोऽहमवतीर्ण इहास्मि भूमौ
धत्से किल त्वमपि मामकलक्षणानि ।
उत्सृज्य तानि शरणं व्रज मामिति त्वां
दूतो जगाद सकलैर्हसित: सभायाम् ॥२॥
दूतेऽथ यातवति यादवसैनिकैस्त्वं
यातो ददर्शिथ वपु: किल पौण्ड्रकीयम् ।
तापेन वक्षसि कृताङ्कमनल्पमूल्य-
श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥३॥
कालायसं निजसुदर्शनमस्यतोऽस्य
कालानलोत्करकिरेण सुदर्शनेन ।
शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां
तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥४॥
जाल्येन बालकगिराऽपि किलाहमेव
श्रीवासुदेव इति रूढमतिश्चिरं स: ।
सायुज्यमेव भवदैक्यधिया गतोऽभूत्
को नाम कस्य सुकृतं कथमित्यवेयात् ॥५॥
काशीश्वरस्य तनयोऽथ सुदक्षिणाख्य:
शर्वं प्रपूज्य भवते विहिताभिचार: ।
कृत्यानलं कमपि बाणरणातिभीतै:
भूतै: कथञ्चन वृतै: सममभ्यमुञ्चत् ॥६॥
तालप्रमाणचरणामखिलं दहन्तीं
कृत्यां विलोक्य चकितै: कथितोऽपि पौरै: ।
द्यूतोत्सवे किमपि नो चलितो विभो त्वं
पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥७॥
अभ्यापतत्यमितधाम्नि भवन्महास्त्रे
हा हेति विद्रुतवती खलु घोरकृत्या ।
रोषात् सुदक्षिणमदक्षिणचेष्टितं तं
पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥८॥
स खलु विविदो रक्षोघाते कृतोपकृति: पुरा
तव तु कलया मृत्युं प्राप्तुं तदा खलतां गत: ।
नरकसचिवो देशक्लेशं सृजन् नगरान्तिके
झटिति हलिना युध्यन्नद्धा पपात तलाहत: ॥९॥
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां
यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास राम: ।
ते घात्या: पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं
तं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषेवे ॥१०॥
Previous
बाणयुद्धम् नृग मोक्षः च
Next
समन्तपञ्चक यात्रा बन्धुमित्रादि समागमः च