बाणयुद्धम् नृग मोक्षः च
बाणयुद्धम् नृग मोक्षः च
Script
Translation
Previous
कालिन्दी आदिपरिग्रहः पारिजात हरणं च
Next
पौण्ड्रक वधः विविध वधः च
अथ श्रीमन्नारायणीयम्
द्व्यशीतितमम् दशकम्
बाणयुद्धम् नृग मोक्ष: च
प्रद्युम्नो रौक्मिणेय: स खलु तव कला शम्बरेणाहृतस्तं
हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् ।
तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं
तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥१॥
बाणस्य सा बलिसुतस्य सहस्रबाहो:
माहेश्वरस्य महिता दुहिता किलोषा ।
त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं
स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् ॥२॥
योगिन्यतीव कुशला खलु चित्रलेखा
तस्या: सखी विलिखती तरुणानशेषान् ।
तत्रानिरुद्धमुषया विदितं निशायाम्
आनेष्ट योगबलतो भवतो निकेतात् ॥३॥
कन्यापुरे दयितया सुखमारमन्तं
चैनं कथञ्चन बबन्धुषि शर्वबन्धौ ।
श्रीनारदोक्ततदुदन्तदुरन्तरोषै:
त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धा: ॥४॥
पुरीपालश्शैलप्रियदुहितृनाथोऽस्य भगवान्
समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे ।
महाप्राणो बाणो झटिति युयुधानेनयुयुधे
गुह: प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥५॥
निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे
द्रुता भूता भीता: प्रमथकुलवीरा: प्रमथिता: ।
परास्कन्द्त् स्कन्द: कुसुमशरबाणैश्च सचिव:
स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥६॥
चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे
व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
ज्ञानी स्तुत्वाऽथ दत्वा तव चरितजुषां विज्वरं स ज्वरोऽगात्
प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्रा: ॥७॥
बाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद्वितन्वन्
निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीत: ।
तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं
मुक्त्वा तद्दत्तमानो निजपुरमगम: सानिरुद्ध: सहोष: ॥८॥
मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे
यमं बालानीतौ दवदहनपानेऽनिलसखम् ।
विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे
विभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥९॥
द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।
निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर् पाहि माम् ॥१०॥
Previous
कालिन्दी आदिपरिग्रहः पारिजात हरणं च
Next
पौण्ड्रक वधः विविध वधः च