कालिन्दी आदिपरिग्रहः पारिजात हरणं च

कालिन्दी आदिपरिग्रहः पारिजात हरणं च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
एकाशीतितमम् दशकम्
कालिन्दी आदिपरिग्रह: पारिजात हरणं च
स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां
यातो भूय: सह खलु तया याज्ञसेनीविवाहम् । पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां शक्रप्रस्थं पुरमपि विभो संविधायागतोऽभू: ॥१॥
भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनु: । तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं शक्रप्रस्थं प्रियसखमुदे सत्यभामासहाय: ॥२॥
तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा तां कालिन्दीं नगरमगम: खाण्डवप्रीणिताग्नि: । भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं राज्ञां मध्ये सपदि जहृषे मित्रविन्दामवन्तीम् ॥३॥
सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां बध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् । भद्रां नाम प्रददुरथ ते देव सन्तर्दनाद्या: तत्सोदर्या वरद भवत: साऽपि पैतृष्वसेयी ॥४॥
पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं लक्षं छित्वा शफरमवृथा लक्ष्मणां मद्रकन्याम् । अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥५॥
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो वहन्नङ्के भामामुपवनमिवारातिभवनम् । विभिन्दन् दुर्गाणि त्रुटितपृतनाशोणितरसै: पुरं तावत् प्राग्ज्योतिषमकुरुथा: शोणितपुरम् ॥६॥
मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता । चतुर्दन्तैर्दन्तावलपतिभिरिन्धानसमरं रथाङ्गेन छित्वा नरकमकरोस्तीर्णनरकम् ॥७॥
स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजञ्चैकं दत्वा प्रजिघयिथ नागान्निजपुरीम् । खलेनाबद्धानां स्वगतमनसां षोडश पुन: सहस्राणि स्त्रीणामपि च धनराशिं च विपुलं ॥८॥
भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं शक्राद्यैर्महित: समं दयितया द्युस्त्रीषु दत्तह्रिया । हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागम: तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथा: ॥९॥
कल्पद्रुं सत्यभामाभवनभुवि सृजन् द्व्यष्टसाहस्रयोषा: स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन् केलिभेदै: । आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे भूय: सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ॥१०॥