स्यमन्तक उपाख्यानम्
स्यमन्तक उपाख्यानम्
Script
Translation
Previous
रुक्मिणी हरणम्
Next
कालिन्दी आदिपरिग्रहः पारिजात हरणं च
अथ श्रीमन्नारायणीयम्
अशीतितमम् दशकम्
स्यमन्तक उपाख्यानम्
सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
दिव्यं स्यमन्तकमणिं भगवन्नयाची: ।
तत्कारणं बहुविधं मम भाति नूनं
तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥१॥
अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा
प्रसेनस्तद्भ्राता गलभुवि वहन् प्राप मृगयाम् ।
अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्
कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥२॥
शशंसु: सत्राजिद्गिरमनु जनास्त्वां मणिहरं
जनानां पीयूषं भवति गुणिनां दोषकणिका ।
तत: सर्वज्ञोऽपि स्वजनसहितो मार्गणपरो
प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभू: कपिगुहाम् ॥३॥
भवन्तमवितर्कयन्नतिवया: स्वयं जाम्बवान्
मुकुन्दशरणं हि मां क इह रोद्धुमित्यालपन् ।
विभो रघुपते हरे जय जयेत्यलं मुष्टिभि:
चिरं तव समर्चनं व्यधित भक्तचूडामणि: ॥४॥
बुध्वाऽथ तेन दत्तां नवरमणीं वरमणिं च परिगृह्णन् ।
अनुगृह्णन्नमुमागा: सपदि च सत्राजिते मणिं प्रादा: ॥५॥
तदनु स खलु व्रीलालोलो विलोलविलोचनां
दुहितरमहो धीमान् भामां गिरैव परार्पिताम् ।
अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
प्रमुदितमनास्तस्यैवादान्मणिं गहनाशय: ॥६॥
व्रीलाकुलां रमयति त्वयि सत्यभामां
कौन्तेयदाहकथयाथ कुरून् प्रयाते ।
ही गान्दिनेयकृतवर्मगिरा निपात्य
सत्राजितं शतधनुर्मणिमाजहार ॥७॥
शोकात् कुरूनुपगतामवलोक्य कान्तां
हत्वा द्रुतं शतधनुं समहर्षयस्ताम् ।
रत्ने सशङ्क इव मैथिलगेहमेत्य
रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥८॥
अक्रूर एष भगवन् भवदिच्छयैव
सत्राजित: कुचरितस्य युयोज हिंसाम् ।
अक्रूरतो मणिमनाहृतवान् पुनस्त्वं
तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥९॥
भक्तस्त्वयि स्थिरतर: स हि गान्दिनेय:
तस्यैव कापथमति: कथमीश जाता ।
विज्ञानवान् प्रशमवानहमित्युदीर्णं
गर्वं ध्रुवं शमयितुं भवता कृतैव ॥१०॥
यातं भयेन कृतवर्मयुतं पुनस्तम्
आहूय तद्विनिहितं च मणिं प्रकाश्य ।
तत्रैव सुव्रतधरे विनिधाय तुष्यन्
भामाकुचान्तशयन: पवनेश पाया: ॥११॥
Previous
रुक्मिणी हरणम्
Next
कालिन्दी आदिपरिग्रहः पारिजात हरणं च