रुक्मिणी हरणम्

रुक्मिणी हरणम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
एकोनाशीतितमम् दशकम्
रुक्मिणी हरणम्
बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानित: ।
द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा । ।१॥
भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥२॥
तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा । निरगमत् भवदर्पितजीविता स्वपुरत: पुरत: सुभटावृता ॥३॥
कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥४॥
समवलोककुतूहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते । नृपसुता निरगाद्गिरिजालयात् सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥५॥
भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया । त्वमपि देव कटाक्षविमोक्षणै: प्रमदया मदयाञ्चकृषे मनाक् ॥६॥
क्वनु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥७॥
क्व नु गत: पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपा: । न तु भवानुदचाल्यत तैरहो पिशुनकै: शुनकैरिव केसरी ॥८॥
तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । हृतमदं परिमुच्य बलोक्तिभि: पुरमया रमया सह कान्तया ॥९॥
नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । अरमय: खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥१०॥
विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा । ऋजुमते: किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥११॥
तदधिकैरथ लालनकौशलै: प्रणयिनीमधिकं सुखयन्निमाम् । अयि मुकुन्द भवच्चरितानि न: प्रगदतां गदतान्तिमपाकुरु ॥१२॥