द्वारका वासः रुक्मिणी सन्देश प्राप्तिः च

द्वारका वासः रुक्मिणी सन्देश प्राप्तिः च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
अष्टसप्ततितमम् दशकम्
द्वारका वास: रुक्मिणी सन्देश प्राप्ति: च
त्रिदिववर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् ।
जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥१॥
ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुष: समुदितैर्मुदितै: सह यादवै: ॥२॥
अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदर: । स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥३॥
चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितं ॥४॥
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजित: स भवता भवतापहृता स्वयम् ॥५॥
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥६॥
तव हृताऽस्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥७॥
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरतनोत् भृशं सुहृदयं हृदयं तव कातरम् ॥८॥
अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥९॥
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् । गुरुमरुत्पुरनायक मे भवान् वितनुतां तनुतां निखिलापदाम् ॥१०॥