कंस वधः
कंस वधः
Script
Translation
Previous
भगवतः मधुरापुरी प्रवेशः
Next
उद्धव दूत्यं
अथ श्रीमन्नारायणीयम्
पञ्चसप्ततितमम् दशकम्
कंस वध:
प्रात: सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये
सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् ।
कंसे सौधाधिरूढे त्वमपि सहबल: सानुगश्चारुवेषो
रङ्गद्वारं गतोऽभू: कुपितकुवलयापीडनागावलीढम् ॥१॥
पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे:
अम्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाण: ।
केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य
व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥२॥
हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्रं
क्रीडन्नापात्य भूमौ पुनरपिपततस्तस्य दन्तं सजीवम् ।
मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे
प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥३॥
गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं
त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोका: ।
हंहो धन्यो हि नन्दो नहि नहि पशुपालाङ्गना नो यशोदा
नो नो धन्येक्षणा: स्मस्त्रिजगति वयमेवेति सर्वे शशंसु: ॥४॥
पूर्णं ब्रह्मैव साक्षान्निरवधि परमानन्दसान्द्रप्रकाशं
गोपेशु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभू: ।
दृष्ट्वऽथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघा:
पूर्णानन्दा विपापा: सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥५॥
चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली
त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् ।
उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं
मृत्यो: प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥६॥
हा धिक् कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ
न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् ।
चाणूरं तं करोद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां
पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥७॥
कंसो संवार्य तूर्यं खलमतिरविदन् कार्यमार्यान् पितॄंस्तान्
आहन्तुं व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय ।
रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चन्नुदञ्चत्-
खड्गव्यावल्गदुस्संग्रहमपि च हठात् प्राग्रहीरौग्रसेनिम् ॥८॥
सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात्
त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टि: ।
किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे
सायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमे: ॥९॥
तद्भ्रातॄनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं
कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानै: ।
भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं
लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोगान् ॥१०॥
Previous
भगवतः मधुरापुरी प्रवेशः
Next
उद्धव दूत्यं