भगवतः मधुरापुरी प्रवेशः
भगवतः मधुरापुरी प्रवेशः
Script
Translation
Previous
भगवतः मधुरापुर यात्रा
Next
कंस वधः
अथ श्रीमन्नारायणीयम्
चतुस्सप्ततितमम् दशकम्
भगवत: मधुरापुरी प्रवेश:
सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वसन्
आरामे विहिताशन: सखिजनैर्यात: पुरीमीक्षितुम् ।
प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-
स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥१॥
त्वत्पादद्युतिवत् सरागसुभगा: त्वन्मूर्तिवद्योषित:
सम्प्राप्ता विलसत्पयोधररुचो लोला भवत् दृष्टिवत् ।
हारिण्यस्त्वदुर:स्थलीवदयि ते मन्दस्मितप्रौढिवत्
नैर्मल्योल्लसिता: कचौघरुचिवद्राजत्कलापाश्रिता: ॥२॥
तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत-
व्यालोलेषु जनेषु तत्र रजकं कञ्चित् पटीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं याहीति तेनोदित:
सद्यस्तस्य करेण शीर्षमहृथा: सोऽप्याप पुण्यां गतिम् ॥३॥
भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् ।
मालाभि: स्तबकै: स्तवैरपि पुनर्मालाकृता मानितो
भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥४॥
कुब्जामब्जविलोचनां पथिपुनर्दृष्ट्वाऽङ्गरागे तया
दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि ।
चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्या: स्फुटं
गृह्णन् मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥५॥
तावन्निश्चितवैभवास्तव विभो नात्यन्तपापा जना
यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् ।
गृह्णान: कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलि:
नातिष्ठं बत हा यतोऽद्य विपुलामार्तिं व्रजामि प्रभो ॥६॥
एष्यामीति विमुक्तयाऽपि भगवन्नालेपदात्र्या तया
दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् ।
आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी-
वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥७॥
आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्
माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तर: ।
स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात् पुर:
प्रागृह्णा: समरोपय: किल समाक्राक्षीरभाङ्क्षीरपि ॥८॥
श्व: कंसक्षपणोत्सवस्य पुरत: प्रारम्भतूर्योपम:
चापध्वंसमहाध्वनिस्तव विभो देवानरोमाञ्चयत् ।
कंसस्यापि च वेपथुस्तदुदित: कोदण्डखण्डद्वयी-
चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत् त्वया ॥९॥
शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या तत:
सम्पश्यन् पुरसम्पदं प्रविचरन् सायं गतो वाटिकाम् ।
श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वपन्
आनन्दन्नवतारकार्यघटनाद्वातेश संरक्ष माम् ॥१०॥
Previous
भगवतः मधुरापुर यात्रा
Next
कंस वधः