उद्धव दूत्यं

उद्धव दूत्यं

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
षट्सप्ततितमम् दशकम्
उद्धव दूत्यं
गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभि:
सर्वज्ञस्त्वं सह मुसलिना सर्वविद्या गृहीत्वा । पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं दत्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥१॥
स्मृत्वा स्मृत्वा पशुपसुदृश: प्रेमभारप्रणुन्ना: कारुण्येन त्वमपि विवश: प्राहिणोरुद्धवं तम् । किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥२॥
त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् । प्रातर्द्दृष्ट्वा मणिमयरथं शङ्किता: पङ्कजाक्ष्य: श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्या: समीयु: ॥३॥
दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि । रुद्धालापा: कथमपि पुनर्गद्गदां वाचमूचु: सौजन्यादीन् निजपरभिदामप्यलं विस्मरन्त्य: ॥४॥
श्रीमन् किं त्वं पितृजनकृते प्रेषितो निर्दयेन क्वासौ कान्तो नगरसुदृशां हा हरे नाथ पाया: । आश्लेषाणाममृतवपुषो हन्त ते चुम्बनानाम् उन्मादानां कुहकवचसां विस्मरेत् कान्त का वा ॥५॥
रासक्रीडालुलितललितं विश्लथत्केशपाशं मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् । कारुण्याब्धे सकृदपि समालिङ्गितुं दर्शयेति प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपु: ॥६॥
एवंप्रायैर्विवशवचनैराकुला गोपिकास्ता: त्वत्सन्देशै: प्रकृतिमनयत् सोऽथ विज्ञानगर्भै: । भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभि: तत्तद्वार्तासरसमनयत् कानिचिद्वासराणि ॥७॥
त्वत्प्रोद्गानै: सहितमनिशं सर्वतो गेहकृत्यं त्वद्वार्तैव प्रसरति मिथ: सैव चोत्स्वापलापा: । चेष्टा: प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥८॥
राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति त्वं किं मौनं कलयसि सखे मानिनीमत्प्रियेव । इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने माम् इत्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥९॥
एष्यामि द्रागनुपगमनं केवलं कार्यभारात् विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेद: । ब्रह्मानन्दे मिलति नचिरात् सङ्गमो वा वियोग: तुल्यो व: स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ता: ॥१०॥
एवं भक्ति: सकलभुवने नेक्षिता न श्रुता वा किं शास्त्रौघै: किमिह तपसा गोपिकाभ्यो नमोऽस्तु । इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥११॥