ब्रह्मणः तपः वैकुण्ठ दर्शनं च

ब्रह्मणः तपः वैकुण्ठ दर्शनं च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
सप्तमम् दशकम्
ब्रह्मणः तपः वैकुण्ठ दर्शनं च
एवं देव चतुर्दशात्मकजगद्रूपेण जात: पुनः तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम् । यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारस: ॥१॥
सोऽयं विश्वविसर्गदत्तहृदय: सम्पश्यमान: स्वयं बोधं खल्वनवाप्य विश्वविषयं चिन्ताकुलस्तस्थिवान् । तावत्त्वं जगतां पते तप तपेत्येवं हि वैहायसीं वाणीमेनमशिश्रव: श्रुतिसुखां कुर्वंस्तप:प्रेरणाम् ॥२॥
कोऽसौ मामवदत् पुमानिति जलापूर्णे जगन्मण्डले दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता । दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितः तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥३॥
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहि: शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गता: । सान्द्रानन्दझरी च यत्र परमज्योति:प्रकाशात्मके तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥४॥
यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो नानाभूषणरत्नदीपितदिशो राजद्विमानालया: । भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जनाः तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥५॥
नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा । त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मी: स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे ॥६॥
तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति । श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणं कारणं विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥७॥
कालांभोदकलायकोमलरुचीचक्रेण चक्रं दिशाम् आवृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् । राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥८॥
दृष्ट्वा सम्भृतसम्भ्रम: कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतित: प्रीत्या कृतार्थीभवन् । जानास्येव मनीषितं मम विभो ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥९॥
आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिभिर्बन्धोऽपि सञ्जायते । इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तगूढ: स्वयं सृष्टौ तं समुदैरय: स भगवन्नुल्लासयोल्लाघताम् ॥१०॥