विराट् स्वरूप वर्णनम्
विराट् स्वरूप वर्णनम्
Script
Translation
Previous
विराट् पुरुष उत्पत्तिः
Next
ब्रह्मणः तपः वैकुण्ठ दर्शनं च
ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
षष्ठम् दशकम्
विराट् स्वरूप वर्णनम्
एवं चतुर्दशजगन्मयतां गतस्य
पातालमीश तव पादतलं वदन्ति ।
पादोर्ध्वदेशमपि देव रसातलं ते
गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥१॥
जङ्घे तलातलमथो सुतलं च जानू
किञ्चोरुभागयुगलं वितलातले द्वे ।
क्षोणीतलं जघनमम्बरमङ्ग नाभिः
वक्षश्च शक्रनिलयस्तव चक्रपाणे ॥२॥
ग्रीवा महस्तव मुखं च जनस्तपस्तु
फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयतनो जगदाश्रितैर-
प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते ॥३॥
त्वद्ब्रह्मरन्ध्रपदमीश्वर विश्वकन्द
छन्दांसि केशव घनास्तव केशपाशा: ।
उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं
पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥४॥
निश्शेषविश्वरचना च कटाक्षमोक्ष:
कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे ।
लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
तारागणाश्च दशना: शमनश्च दंष्ट्रा ॥५॥
माया विलासहसितं श्वसितं समीरो
जिह्वा जलं वचनमीश शकुन्तपङ्क्ति: ।
सिद्धादय: स्वरगणा मुखरन्ध्रमग्निः
देवा भुजा: स्तनयुगं तव धर्मदेव: ॥६॥
पृष्ठं त्वधर्म इह देव मन: सुधांशुः
अव्यक्तमेव हृदयांबुजमम्बुजाक्ष ।
कुक्षि: समुद्रनिवहा वसनं तु सन्ध्ये
शेफ: प्रजापतिरसौ वृषणौ च मित्र: ॥७॥
श्रोणीस्थलं मृगगणा: पदयोर्नखास्ते
हस्त्युष्ट्रसैन्धवमुखा गमनं तु काल: ।
विप्रादिवर्णभवनं वदनाब्जबाहु-
चारूरुयुग्मचरणं करुणांबुधे ते ॥८॥
संसारचक्रमयि चक्रधर क्रियास्ते
वीर्यं महासुरगणोऽस्थिकुलानि शैला: ।
नाड्यस्सरित्समुदयस्तरवश्च रोम
जीयादिदं वपुरनिर्वचनीयमीश ॥९॥
ईदृग्जगन्मयवपुस्तव कर्मभाजां
कर्मावसानसमये स्मरणीयमाहु: ।
तस्यान्तरात्मवपुषे विमलात्मने ते
वातालयाधिप नमोऽस्तु निरुन्धि रोगान् ॥१०॥
Previous
विराट् पुरुष उत्पत्तिः
Next
ब्रह्मणः तपः वैकुण्ठ दर्शनं च