भगवतः तिरोधानम् पुनः प्रादुर्भावः च

भगवतः तिरोधानम् पुनः प्रादुर्भावः च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
सप्तषष्टितमम् दशकम्
भगवत: तिरोधानम् पुन: प्रादुर्भाव: च
स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीला: ।
असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्य: ॥१॥
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिराम: । इति स्म सर्वा: कलिताभिमाना निरीक्ष्य गोविन्द तिरोहितोऽभू: ॥२॥
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे । भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥३॥
तिरोहितेऽथ त्वयि जाततापा: समं समेता: कमलायताक्ष्य: । वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥४॥
हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्य: । किं वीक्षितो नो हृदयैकचोर: इत्यादि तास्त्वत्प्रवणा विलेपु: ॥५॥
निरीक्षितोऽयं सखि पङ्कजाक्ष: पुरो ममेत्याकुलमालपन्ती । त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥६॥
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रु: किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥७॥
तत: समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्य: । पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥८॥
तथा व्यथासङ्कुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो । जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥९॥
सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्य: सहसा तदानीम् । किं किं न चक्रु: प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ॥१०॥